SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो० ३४-३५] हीरसौभाग्यम् हन्ता यतः स तमसां तमसामिवारिः, प्रागेव तैः किमिति भीतिवशात्प्रणेशे ॥३४॥ यद्यस्मात्कारणात् नाथीनन्दनः पृथुकः बालकः सुमनोभिर्देवैर्निषेव्य उपास्यो भावी भविष्यति । उत्प्रेक्ष्यते-इति हेतोः तदृष्टयः सुमनोवर्षणानि पुष्पवृष्टयः दिवो व्योममण्डलात् गृहे अर्थात्तद्भवने निपेतुः पतिताः । 'चित्रीयितमतिबहलपतत्पुष्पवृष्टया' इति नलजन्मसमये चम्पूकथायाम् । पुनर्यत्कारणात्स कुमारस्तमसामज्ञानानां पापानां वा अरिहन्ता निवारकः भावी भविष्यति । क इव । तमसामरिरिव । यथा ध्वान्तानां शत्रुर्भास्वान् तमसामन्धकाराणां हन्ता घातको भवति । किमुत्प्रेक्ष्यते-इति भीतिवशाद्याची. नत्वात् प्रागेव पूर्वमेव तद्वपुःप्रभाभरैरान्निरस्तैस्तमोभरैः सूतिकागृहात्प्रणेशे प्रणष्टम् । पलायितमित्यर्थः । 'सुमनसः पुष्पे देवे महात्मनि च' 'तमोऽज्ञाने पापे ध्वान्ते राही च' इत्यनेकार्थाः ॥ શ્લોકાઈ નાથીદેવીનો પુત્ર દેવોને પણ પૂજનીય થશે. “જાણે આ બતાવવા માટે જ આકાશમાંથી તેના ઘરમાં પુષ્પવૃષ્ટિ થઈ ન હોય !” “આ હીરકુમાર સૂર્યની જેમ અજ્ઞાનરૂપી અંધકારનો નાશ કરનાર થશે આ હેતુથી જ તેના શરીરની કાંતિવડે ભયભીત બનેલે અંધકાર પહેલેથી જ પલાયન થઈ ગયા ! અર્થાત સૂર્યોદય થયે ! ૩ કળા लब्धिश्रियानुसरता वसुभूतिपुत्र, ___ सारूप्यमाकलयता च युगप्रधानैः । जज्ञे चिराद्यदमुना विभुना ममान्तः प्रीत्येत्यनृत्यदिव शांभवशासनश्रीः ॥३५॥ 'शभोर्जिनस्येदं शांभव शासन मत तस्य श्रीर्जिनशासनलक्ष्मीरनृत्यत् नृत्यति स्म । इवोत्प्रेक्ष्यते-इति कारणादन्तश्चित्ते प्रीत्या हार्देन स्नेहेन प्रमोदेन वा । इति किम् । यश्चिरादनल्पकालादमुना कुमारेण मम जिनशासनश्रिया विभुना स्वामिना जज्ञे संजातम् । अमुना किं कुर्वता। लब्धीनां विविधानां क्षीरास्रवादिकानां श्रिया शोभया संपदा वा वसुभूतिपुत्रम् । 'श्रीइन्द्रभूतिं वसुभूतिपुत्रं पृथ्वीभवं गौतमगोत्ररत्नम्' इति पूर्वसूरिस्तवक्तं । वसुभूतिनाम्नो ब्राह्मणश्रेष्ठस्य पुत्र नन्दन गौतमस्वामिनमनुसरता अनुकुर्वता। च पुनः किं कुर्वता । युगप्रधानैः वज्रस्वाम्यादिभिः सूरिभिः सारूप्यं सादृश्यमाकलयता बिभ्रता ॥ લેકાર્થ જિનેશ્વર ભગવંતના શાસનની લક્ષ્મી અંતરમાં સ્નેહને ધારણ કરતી નાચી ઉઠી. કારણકે “વિવિધ પ્રકારની ક્ષીરસ્ત્રવ આદિ લધીઓ વડે શોભતા ગૌતમસ્વામીને અનુસરવાથી અને વજસ્વામી
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy