________________
१५६
हीरसौभाग्यम् सर्ग ३ श्लो० २६-३२ आचार्यमध्वरभुजामिव फाल्गुनी सा,
नाथी क्रमेण तनयं जनयांचकार ॥३२॥ (सप्तभिः कुलकम् )
सा नाथी क्रमेण परिपाट्या तनयं नन्दन जनयांबभूव जनयति स्म । कस्मिन्सति । लग्न मूर्त तनुभवन गुरौ बृहस्पतौ, तथा शिखिनि केतुग्रहे । 'अश्लेषाभूः शिखी केतुः' इति हैम्याम् । शीलति भजति सति । किंभूतं लग्नम् । युग्मं मिथुनमिति नाम यस्य इति गुरुकेतू लग्ने । पुनः कस्मिन्सति । भूमीभवे मङ्गले कन्यां भजत्याश्रयति सति । कस्मिन्निव । खिड्ग इव । यथा विटः कन्यां कुमारिकामपरिणीतां स्त्रियं भजते । इति कन्यायां मङ्गलः । पुनः कस्मिन्सति । सितमरीचेश्चन्द्रस्य सुते बुधे च पुनः सिते शुक्र सति । किंभूते बुधे शुक्रे च । याते प्राप्ते । काम् । तुलां तुलानामलग्नम् । अर्थात्तुलायां बुधे शुक्रे च सति । अपि पुनः । सूरे सूर्य अलिनाम वृश्चिकलग्न तत्र यो विलासः । 'लस श्लेषणक्रीडनयोः' इति धात्वर्थात् । श्लेषणमाश्रयण स्थितिः तत्र शीलं स्वभावो यस्य । क इव । सारस इव । यथा सारसपक्षी आल्या श्रेण्या कृत्वा यो विलासः क्रीडया गमनमासन च तत्र स्वभावो यस्य यथा । 'श्रेणीबन्धाद्वितन्वादभरस्तम्मा तो स्रजम् । सारसैः कलनिहादेः क्वचिदुन्नमिताननौ ॥' इति रघौ । इति चतुर्थे वृश्चिके सूर्य । पुनः । राहो विधुतुदे धन धनलग्न प्रपन्ने सति । कस्मिन्निव । सुकृतिनि । यथ. पुण्यवान् धन द्रव्यं प्रपद्यते प्राप्नोति । इति धने राहुः । च पुनः । विधौ चन्द्रे मकरो मकरलग्नं स आश्रयोऽधिष्ठान यस्य । कस्मिन्निव । पत्याविव । यथा रतेः पत्यौ भर्तरि मकरे ध्वजरूपत्वाद्वाहने आश्रय आश्रयण यस्य । इति मकरे चन्द्रमाः । पुनः शनौ शनैश्चरे मीन मीनलग्न मदयति सति । किंवत् । सलिलवत् । यथा पानीय मीन समद कुरुते पयस्येव मीनाः समदाः । इति मीने शनैश्चरः । इति नवापि ग्रहा जन्मकुण्डल्याम्। इत्थममुना प्रकारेण जन्मसमये ग्रह सूर्यादिखेचरेषु तस्य हीरकुमारस्य अयस्य शुभकर्मणः पुण्यस्य अभ्युदयस्य वधमानकीर्तिप्रतापसंपद्पस्य महोदयस्य आवहेषु कारकेषु सत्सु । पुनः कस्यां सत्याम् । नवम्यां तिथौ विद्यमानायां सत्याम् । किंलक्षणायाम् । विशदश्रिय श्वैत्यलक्ष्मीमाश्रयन्त्यां सत्याम् । उत्प्रेक्ष्यते-हीरकुमारस्य जन्मानुमावतः जननप्रभावादिव । तिथिः कस्य सहस्य मार्गशीर्षनानो मासस्य । कस्मिन् । विश्वानि श्रीणि जगन्ति, अवनीधरा अष्टौ महाकुलशेलाः, शिलीमुखाः पञ्च स्मरबाणाः, पूषा भानुरेकः, इति संख्या यस्य तादृशे संवत्सरे । कस्मात् । अवनेः पृथिव्याः पुरंदरो यो विक्रमार्कस्तस्मात् । एतावता संवत् १५८३ विक्रमादित्यसंवत्सरे मार्गशीर्षमासे नवम्यां तिथी सोमवासरे पूर्वाभाद्रपदमे हर्षणनामयोगे घटी १२ उपरान्तवज्रयोगे मिथुनलग्ने प्रवहमाने तद्दिने प्रह्लादनपुरवास्तव्य औकशवंश्यसाहकुंरापत्नी नाथी देवी सुतरत्नमजीजनत् । इति संवत्सरादिः । पुनः कस्मिन्सति । अस्य हीरकुमारस्य शुभशंसिनि श्रेयः कथयितरि लग्नोदये मिथुनलग्नोद्गमे सति । पुनः कस्मिन्सति । सर्वभूमेरीश्वरः सार्वभौमश्चक्रवर्ती तस्य जन्मनोऽवतारस्य उचिते योग्ये अहनि वासरे सति । पुनः कस्मिन्सति । सह साधिना प्रधानत्वेन वर्तते तादृशे धिष्ण्यस्य नक्षत्रस्य योगे सति । 'त्वया.