________________
१५
सर्ग ३ श्लो. २६-३१] हीरसौभाग्यम्।।
लग्न गुरौ शिखिनि शीलति युग्मनाम,
भूमीभवे भजति खिङ्ग इवाथ कन्याम् । याते तुलां सितमरीचिमुते सिते च,
सूरेऽपि सारस इवालिविलासशीले ॥२६॥ राहौ पुनः सुकृतिनीव धनं प्रपन्ने,
पत्वौ रतेरिव विधौ मकराश्रये च । मीन शनौ सलिलवन्मदयत्यदीन
मित्थं ग्रहेषु तदयाभ्युदयावहेषु ॥२७॥ विश्वावनीधरशिलीमुखपूषसंख्ये,
संवत्सरेऽवनिपुरंदरविक्रमार्कात् । .. मासः सहस्य विशदश्रियमाश्रयन्त्यां,
जन्मानुभावत इवास्य तिथौ नवम्याम् ॥२८॥ लग्नोदयेऽथ शुभशंसिनि सार्वभौम-: ___ जन्मोचितेऽहनि ससाधिमधिष्ण्ययोगे । कूलंकषा मखभुजामिव केकियान____ माखण्डलामृतमयूखमुखी जयं वा ॥२९॥ आमोदमम्बुरुहिणीव विजृम्भमाणा, ___ पश्चाचिषं शुचिमरीचिचकोरचक्षुः । सौदामनीक्लयमम्बुदमालिकेव,
पृथ्वीव तीर्थमनघं कृषिमुर्वरेव ॥३०॥ पीयूपकान्तिमिव दुग्धपयोधिवेला,
सिंह महामृगरिपोरिव वा महेला । विश्वावबोधमिव वासरवक्त्रलक्ष्मीः,
श्रीखण्डशालमिव वा मलयाचलोवी ॥३१॥ शृङ्गारयोनिमिव नीरजनाभपनी,
राज्ञः प्रतापमिव वा जगतीजयश्रीः ।