________________
सर्ग ३ श्लो० २३-२४] हीरसौभाग्यम्
दम्भोलिभूषणभरोद्भबदंशुचाप
चक्राङ्कितेन पयसा परिपूरितेन । आदीयते किमु समुचमता चकोर
चक्षुःपयोधरयुगेन पयोधरश्रीः ॥२३॥ चकोरी चकोरच चकोरौ । 'पुमान् स्त्रिया' स्त्रिया सहोक्तौ पुमान् शिष्यते न ली इति प्रक्रियासूत्रेण चकोरौ तयोश्चक्षुषी इव रक्ते चक्षुषी नेत्रे यस्यास्तस्याः । पयोधरयुगेन स्तनद्वन्द्वेन । किमूत्प्रेक्ष्यते । पयोधराणां जलवाहानां मेघानां श्री लक्ष्मीः शोभा का आदीयते किमु गृह्यते इव । किंभूतेन पयोधरयुमेन । दम्भोलीनां वज्ररत्नानामाभरणानां भराद्धन्दादुद्भवन्तः प्रकटाः जायमाना ये निःसरन्तो वा अंशवः किरणास्तैः । अर्थात् प्रारब्धेन चापचक्रेण धनुर्मण्डलेन अङ्कितेन कलितेन । उल्लसन्मयूखमञ्जरीरचितेन्द्रचापचक्राण्याभरणानि' इति चम्पूकथायाम् । तथा 'वृता विभूषामणिरश्मिकार्मुकैः' इति नैषधेऽपि पुनः किंभूतेन । सं सम्यक् समीचीनं यथा स्यात्तथा उन्नमता उच्चैर्भवता उन्नतीभवता च । पुनः किंभूतेन । पयसा स्तन्येन पानीयेन च परि सामस्त्येन पूरितेन भृतेन ॥ इति कपोलस्तनादिपाण्डिमा स्तनयोः पयःपूर्णत्वं च ॥
શ્લોકાઈ ચર પક્ષી જેવા લાલ નેત્રોવાળી નાથીદેવીના સ્તનયુગલ જાણે મેઘની શોભાને ધારણ કરતા ન હોય ! વજરત્નના આભૂષણોના ભારથી ઉત્પન્ન થયેલા કિરણે વડે ઇન્દ્રધનુષ્યની શોભાને ધારણ કરનારા, અતિઉન્નત અને દૂધથી પરિપૂર્ણ (મેઘપક્ષે જલથી ભરપૂર) એવા સ્તનયુગલ જાણે મેઘની લક્ષ્મીને ગ્રહણ કરતા ન હોય ! પારકા
संपूर्णचन्द्रवदना प्रसवोन्मुखत्वं,
पूर्णेऽथ गर्भसमये बिभरांबभूव । वर्षाभिमुख्यमुपकण्ठवितिष्ठमान
ज्येष्ठोन्मुखीकृतजनाम्बुदमण्डलीव ॥२४॥ अथ साधसप्तदिनाधिकनवमासपूर्णीभवनोत्तरं संपूर्णः षोडशकलाकलितः पूर्णिमा संबन्धी । चेदेकयापि कलया योन्दु_नः स्यात्सा तिथिरनुमितिरित्युच्यते । 'कलाहीने त्वनुमितिः' इति हैमीवचनात् । पूर्णिमायामेव संपूर्णश्चन्द्रः स्यादतः संपूर्णचन्द्रवदनेति । तेन पूर्णिमायामभ्युदितों यश्चन्द्रस्तद्वद्वदनं वक्त्र यस्याः पार्वणेन्दुमुखी सा नाथी गर्भस्य समये काले पूर्ण परिपूर्तिभावं प्राप्ते सति सार्धसप्तदिनाधिकनवसु मासेषु संपूर्णीभूतेषु सत्सु प्रसबस्य संतानजननस्य उन्मुखतां बिभरांबभूव धारयामास दधाति स । केव । अम्बुदमण्डलीव । यथा मेघमाला कादम्बिनी वर्षणं वर्षः वृष्टिस्तस्याभिमुख्यं वर्षणसंमु