SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५२ हीरसौभाग्यम् सर्ग ३ श्लो० २१-२२ यस्या गुर्विण्याः स्तनयोयेन व्यभ्राजि शुशुमे । किंभूतेन । सह मेचकिम्ना श्यामलत्वेन वर्तेते ये ते समेचकिमनी कृष्णत्वकलिते तादृशे चूचुके स्तनवृन्ते ताभ्यां चञ्चुरेण मनोहारिणा । पुनः किंभूतेन । शुभ्रिमाण पाण्डुरतां बिभर्तीति । तत्र वयमेवं विद्मः । उत्प्रेक्षामहे वा । यन्मानसं नाथीचित्तं तदेवाश्रयः स्थानं गृहं वा तत्र निवसनशीलयो रतीशरत्योः स्मरतद्भार्ययोः विनोदार्थ क्रीडाकृते मधुकरा भ्रमरा अन्के क्रोडे सन्त्यस्येति तादृशा कुमुधुगेन कैरवद्वयेनैव किं वा । अथ वा प्रसद्य प्रसन्नीभूय विधिना ब्रह्मणा कुसुमायुधस्य मदनस्य विश्राणितेन प्रदत्तेन रौप्येण राजतेन रजतसंबन्धिना पीयूषपूर्णेन अमृतभृतेन सुधारसपरिपूरितेन कलशीयुगेन कुम्भीद्वयेनेव । कुम्भकलशशब्दौ पुंस्त्रीलिगे । 'अवलम्बितकर्णशष्कुलीकलशी के रचयन्नवोचत' इति नैषधे । कलशीयुगेन किंकुर्वता । नीलदृषदां हरिन्मणीनां पिधानं दधता बिभ्रता । किं कर्तु दत्तेन । प्रेम्णा पितामहत्वस्नेहेन अजरामरतां जरामरणराहित्यं प्रणेतुं कर्तुम् ॥ युग्मम् ॥ કલેકાર્થ ગર્ભવતી એવી નાથીદેવીના, શ્યામ ડીંટડીઓથી મનોહર અને અતિ ઉજવલ એવા બે સ્તને શોભે છે. તે અમે જાણીએ છીએ કે નાથાદેવીના ચિત્તનું આશ્રયસ્થાન બનાવીને રહેલા કામદેવ અને રતિને વિનેદ કરવા માટે, મધ્યમાં ભમરાઓવાળા બે કુમુદ જાણે ન હોય ? અથવા કામદેવને અજરામર બનાવવા માટે વિધાતાએ પ્રેમપૂર્વક ભેટ કરેલા, નીલમણિના ઢાંકણા સહિત અમૃત રસથી પરિપૂર્ણ એવા બે ઘડા જાણે ન હોય ? પરમાર पीन तनद्वयममेचकितं पयोभि म्तस्याः क्षण क्षणमपूर्यत गर्भवत्याः । सान्दै रसैरिव विकस्वरकैरविण्याः, कोशद्विकं विशदिमश्रियमुद्वहन्त्याः ॥२२॥ तस्या गर्भवत्या गुविण्याः पीन पुष्ट तथा अमेचकित पाण्डुरीभूतं स्तनद्वयं कुचद्वन्द्वं क्षण क्षणं पयोभिः स्तन्यैः दुग्धैरित्यर्थः । अपूर्यत पूर्ण जायते स्म । निभृतं भ्रियते स्म । किमिव कोशद्विकमिव । यथा विकस्वराया विकसनशीलायाः । 'प्रभातेऽ म्भोजिनीवासि किं चाकस्माद्विकस्वरा' इति पाण्डवचरित्रे । कैरविण्याः कुमुदिन्याः मुकुलयगलं क्षणं क्षणं सान्द्रैर्बहलैघनै रसैमकरन्दैः संपूर्यते । किं कुर्वत्याः कैरविण्याः । विशदिनः श्वततायाः श्रियं शोभां तस्या अप्यर्थध्वनिः । विशदिना सतीत्वेन । 'असू. यंपश्या राजदाराः' इति वचनात् । नैर्मल्येन पावित्र्येण वा युक्तां श्रियं लक्ष्मीमिन्दिरां वा उद्वहन्त्या बिभ्राणायाः ॥ શ્લેકાર્થ વિકસ્વર અને અતિવેતતાની શોભાને ધારણ કરનારી કમલિનીના બે ડેડા જેમ ઘણું સથી ભરપૂર બને છે તેમ ગર્ભવતી નાથીદેવીના ઉજજવલ અને પુષ્ટ બનેલા સ્તનયુગલ ક્ષણે ક્ષણે દૂધ વડે પરિપૂર્ણ થયા હતા. પરા
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy