________________
१५०
हीरसौभाग्यम् सर्ग ३ श्लो० १७-१८ कासस्मिता कुमुदिनी सुरभिर्मराल
लीलागतिः शरदिवाजनि सा तदानीम् ॥१७॥ सा नाथी तदानी तस्मिन् गर्भाधानसमये शरदिव धनात्ययसमय इव अजनि संजाता । किंभूता नाथीदेवी शरञ्च । नीलारविन्दे इन्दीवरे । 'नीले तु स्यादिन्दीवरम्' इति हैम्याम् । उत्पले तद्वत्ते एव वा नयने यस्याः । पुनः किंभूता । कलमा कलमनामशालयः तद्वत्तैश्चावदाता गौरकान्तिः । पुनः किंभूता । बन्धूकानि बन्धुजीवकतरुकुसुमानि मध्याह्न एव विकसनशीलानि 'वि(ब)पोरियां' इति लोके प्रसिद्धानि । बन्धूकप्रसवारुणाम्बरधराम्' इति लघुस्तवे । तथा 'बन्धूकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोजिहानाम्' इति नैषधेऽपि । तद्वत्तान्येव वा दन्तवसनमधरो यस्याः । पुनः किंभूता । सिता उज्ज्वला कान्तिर्यस्य तादृक् वक्त्रं मुखं यस्याः । पक्षे सितकान्तिश्चन्द्र एव वदनं यस्याः । पुनः किंभूता । काशः ईषीकाः कासाः प्रसिद्धास्तद्वत्ते एव स्मितमीषद्धसितं यस्याः । पुनः किंभूता । कुमुदिन्यः कैराविण्यस्तथा ताभिश्च सुरभिः सुगन्धिः । पुनः किंभूता । मराला राजहंसास्तद्वत्तेषां च लीलया मन्थरतया गतिर्गगमनं यस्या यस्यां वा । वर्षासु हंसा मानससरसि यान्ति । 'प्रोषितकलहंसवयसि' इति चम्पूकथायां मेघवर्णने । प्रोषिता मानसं प्रति प्रस्थापिताः कलहंसा एव वयांसि पक्षिणो येनेति तट्टिपनके । तथा 'शरदि पुनरत्रायान्ति' इति कविसमयः ॥
કા ગર્ભકાળમાં નાથાદેવી શરદઋતુ રૂપે બની. નાથદેવી – કમલ જેવાં નેત્રોવાળી છે. श२६४ - म०३५ नेत्रोवाणी छे. नाथानी - मधु (हुपरीया) क्षना पुष्प वा २७वत અધર (હઠ) વાળી છે, શરદ – બંધુક વૃક્ષના પુષ્પરૂપી એકપુર વાળી છે, નાથીદેવી - કાસ પુષ્પ જેવા ઉજજવલ અને દેદીપ્યમાન હાસ્યવાળી છે, શરદઋતુ - કાસપુષ્પરૂપી હાસ્યવાળી છે. નાથદેવી - રાજહંસ સરખી મધુર ચાલવાળી છે, શરદ - રાજહંસરૂપી ચાલવાળી છે ! આ રીતે शतुनी गेम नाथायी शामती ती. ॥७॥
माणिक्यभूषणगणैर्न तदा कदाचि
खेदोदयाद्वपुरभूष्यत चन्द्रमुख्या । क्रीडागतामरकरावचिताम्बुजातां,
जानेऽनुयातुमनसा सरितं सुरागाम् ॥१८॥
तदा गर्भसमये चन्द्रमुख्या नाथीदेव्या विधुवदनया कदाचिदपि माणिक्यानां मणीनामुपलक्षणात्स्वर्णरजतादीनां भूषणानामाभरणानां गणैः समूहैः वपुः स्वशरीरं नाभूष्यत न भूषितं नालंकृतवती(?) । अल्प(ना)शब्दस्त्वभावस्यैव वाची । नालंचक्रे । कस्मात् । खेदोदयात् गर्भधारणनिर्वेदाविर्भावात् । तत्राहमेवं जाने उत्प्रेक्ष्यते वा । क्रीडाथै जलावगाहलीलाकृते आगतानाममराणामाद्देवीसखानां देवानां करैईस्तैरवचितानि स्वप्रियाहारा