SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४८ हीरसौभाग्यम् शुद्धां क्रियां विदधतामधिभूर्यदेष, भावीरितः किमिति भागवतैः प्रतापैः । आनन्दपूर्व विमलव्रतिवासवस्तां, [ सर्ग ३ श्लो०१४-१५ प्राग्जन्मनः समय एव समुद्दधार || १४ || आनन्द इति शब्दः पूर्वं यस्य तादृशो विमलः एतावता आनन्दविमलनामा व्रतिनां साधूनां मध्ये वासवः शक्रः सूरीन्द्रः जन्मनः प्राक्समये एवार्थात् श्रीहीरविजयसूरिजन्मकालात्प्राक् पूर्वकमेव निर्दोषां निरवद्यां क्रियामनुष्ठानमुद्धार समुद्धरति स्म । एतावता हीरकुमारे गर्भेऽवतीर्णमात्र पवानन्दविमलसूरिः क्रियोद्धारं कृतवानित्यर्थः । किमुत्प्रेक्ष्यते । भागवतैर्भविष्यत्सूरि संबन्धिभिः प्रतापैः प्रभावैर्माहात्म्यैः । ' स प्रभाववत् प्रतापः' इति हैम्याम् । इति हेतोः ईरितः प्रेरितः किम् । यत्कारणात् एष हीरविजयसूरिः शुद्धां निर्मलां क्रियामनुष्ठानं विदधतां साधूनामधिभूरधिपतिर्भावी स्वामी भविष्यति । प्रागित्यव्ययम् ॥ 1 લેાકા સાધુઓમાં સમાન એવા આનવિમલસૂરિજીએ શ્રીહીરવિજયસૂરિજીના જન્મકાળપૂર્વ નિરવદ્ય ક્રિયાહાર કર્યા હતેા; તે જાણે ‘ભવિષ્યકાલીન આચાર્યના પ્રભાવથી આ હીરવિજયસૂરિ શુદ્ધ ક્રિયા કરવાથી સાધુઓના અધિપતિ બનો' આ હેતુથી જ જાણે જન્મકાળની પૂર્વે નિકટના સમયમાં ક્રિયાદ્વાર કર્યાં ન હોય ! ૫૧૪ા कालागुरुद्रवकरम्बितगन्धधूली पत्रावली कलितपाण्डुरगण्डभाजा । छयाधरः शरदपास्त पयोदरोधोSवश्यायदीधितिरहस्यत तन्मुखेन ||१५|| तन्मुखेन नाथीवदनेन अवश्यायदीधितिर्हिमद्युतिः । 'अवश्यायस्तु तुहिनं प्रालेयं मिहिका हिमम्' इति हैम्याम् । अहस्थत हसितः । तिरस्कृत इत्यर्थः । किंभूतेन तन्मुखेन । कालागुरुद्रवेण काकतुण्डस्य पयसा पकेन वा करम्बिताया व्याप्ताया गन्धधुल्याः कस्तूर्याः पत्रावलीभिः कलितौ संयुतौ । तथा गर्भानुभावात्पाण्डुरौ विशदौ गण्डौ कपोलौ भजतीति भाकू तेन भाजा उल्लसद्वहलमृगमदजललिखित विचित्रपत्रभङ्गभव्यविपुलकपोलमण्डलेन मुखेन । ' शशाङ्कमन्तः स्फुरत्कलङ्कमुपहसन्ती' इति चम्पूकथायाम् । किंभूतश्चन्द्रः छायामन्तःश्यामतां धरतीति । पुनः किंभूतः । शरदा घनात्ययेन अपास्तो निराकृतः पयोदानां मेघानाम् । 'प्रावृषेण्यो घनो जलदायी न शारदः । यत उक्तम्- 'अन्ये ते [खलु नीरदा] जलधरास्तृष्णां विनिघ्नन्ति ये, भ्रातश्चातक कि वृथाऽत्र रटितैः खिन्नोऽसि विश्राम्यताम् । मेघः शारद एष काशधवलः पानीयरिक्तोदरो, गर्जत्येव हि केवलं भृशमपां
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy