SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो० १२-१३] हीरसौभाग्यम् १४७ सा नाथी भाति स्म । किंभूता । पूर्व तेषां दोहदानां जगत्प्रशस्यानामुदयेनाविर्भावेन कृशीकृता दुर्बला विहिता पश्चाश्च तेषां दोहदानां प्रपूर्त्या प्रकर्षण पूरणेन संपूर्णीभवनेन संप्रापितः सम्यकप्रकारेण लम्भित आसादितो वा उपचयः पुष्टिर्यस्य येन वा तादृशस्य संचरस्य देहस्य चारिम्णो मनोहरतायाः श्रीर्यस्याः, चारुत्वयुक्ता लक्ष्मीर्यस्याः सा वा, समासान्तविधेरनित्यत्वात् । केव । विपिनस्थलीव यथा वनभूमि ति । किंभूता वनस्थली । प्रथम फाल्गुनेन फाल्गुनिकमासेन विगतानि पत्राणि पर्णानि येभ्यस्ते विपत्राः । विपत्रान् करोतीति विपत्रयति । 'तत्करोति तदाचष्टे' इतीप्रत्ययः। विपश्यन्ते स्म इति विपात्रताः। अथवा। विपत्रत्वं संजातमेष्वेषां वा । 'इतो जाताथे' इतीत प्रत्ययेऽपि । विपत्रिताः पत्ररहिताः कृता इत्यर्थः । पश्चाच्चैत्रेण मधुमासेन सान्द्रीभूताः पल्लवपुष्पफलैर्धनच्छाया जाता अवनीरुहा वृक्षास्ते विद्यन्ते यस्यां सा ॥ કાર્ય જગતમાં પ્રશંસનીય એવા શુભ દેહદ પ્રગટ થવાથી પ્રથમ કૃશ બનેલી ને પછીથી દેહદાની સંપૂર્ણતયા પૂર્તિ થવાથી શરીરની પુષ્ટતાપૂર્વક મનહર સૌન્દર્યને ધારણ કરનારી નાથીદેવી અત્યંત શોભતી હતી જેમ ફાગણમાસમાં વનભૂમિનાં વૃક્ષો પાંદડા વગેરે વિનાનાં હોય છે અને પછીથી વસંતમાસમાં (ચૈત્રમાસમાં) પલ્લવ, પુષ્પો અને ફલેવડે ગીચ સુંદરવૃક્ષોવડે વનભૂમિ શોભે છે, તેમ નાથીદેવી અતિશોભાને ધારણ કરતી હતી. ૧૨ निस्तीर्य दोहदभवार्तिमथैणचक्षुः में इस्वितामवयवेषु बभौ वहन्ती । स्मेरद्दलैरुपचिता नवशारदीन नालीकिनीवदतिवाहितवारिवाहा ॥१३।। अथ दोहदपूर्णीभवनान्तरम् । एणचक्षुर्मुगनेत्रा नाथी अवयवेष्वङ्गेषु मेदसवितां पुष्टिं वहन्ती बिभ्रती सती बभौ राजते स्म । किं कृत्वा । दोहदेभ्यो गर्भानुभावोत्पन्नविविधाभिलाषेभ्यो भवामुत्पन्नामति पीडां चिन्तां वा निस्तीर्य निरस्य । किंवत् । नवशारदीननालीकिनीवत् । यथा नवा नूतना शारदीना शरत्कालसंबन्धिनी नालीकिनी कमलिनी स्मरद्भिर्विकसद्भिः । 'स्मेरदम्भोरुहाराम' इति पाण्डवचरित्रे । दलैः पत्रैरुपचिता पुष्टा कृता । पुनः किंभूता । अतिवाहितो वारिवाहो मेघसमयो यया 'वर्षासु कमलानि शीर्यन्ते विद्राणपङ्कजसरसि' इति चम्पूकथायाम् । 'त्रिदिवसमुद्भवन्ति प्रोन्मीलत्सु नीलनीरजेषु शरच्छ्रीकटाक्षेष्विव' इत्यपि चम्पूकथायाम् ॥ પ્લેકાર્થ દેહદો પૂર્ણ થયા બાદ દેહદેથી ઉત્પન્ન થયેલી ચિંતાને દૂર કરીને મૃગનયના નાથીદેવી શરીરના અવયવોની પુષ્ટતાને ધારણ કરતી શોભતી હતી. જેમ નવીન શરદઋતુસંબંધિની વિકસિત કમલિની મેઘવડે સિંચાયેલી પર્ણ પુષ્પ આદિથી પુષ્ટતા ધાણુ કરે છે તેમ નાથીદેવી પણ અવયવોની પુષ્ટતા ધારણ કરતી શોભતી હતી. કા
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy