SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो० ९-१०] हीरसौभाग्यम् तस्याः सुतो रविरिवाम्बुजपाणिविश्व चक्षुःप्रबोधकरकृत्ततमा महस्वी । भावी यतः किमिति पद्मदृशा चकाक्षे, तन्मण्डलं स्वसदनेऽनिशमुज्जिहानम् ॥९॥ यतः कारणात्तस्या नाथीदेव्याः सुतः पुत्रो रविर्भानुमानिव अम्बुजे पझे इव पाणी हस्तौ यस्य । तथा-अम्बुजमाकृत्या कमलं पाणौ यस्य । तथा-विश्वस्य जगजनस्य धर्ममार्गप्रकाशकत्वेन चक्षुरिव चक्षुः । तथा प्रबोधं तत्त्वज्ञानं तस्य करः कारकः । प्रतिबोधदायक इत्यर्थः । तथा कृतं छिन्न तमः पापमज्ञान वा येन स तादृशो भावी भविष्यति । रविस्तु-कमलकलितकरः जगञ्चक्षुर्नामा । प्रबोधो विनिद्रता जागरणं तत्कारकः दलितान्धकारश्च वर्तते । पुनः किंभूतः । महस्वी प्रतापवान् । कुदृशामधृष्यः । अथ वाउत्सववान् । उत्सववाच्यपि महःशब्दः सकारान्तोऽप्यस्ति । यथा नैषधे-'एनं महस्विनमुपैहि सदारुणोच्चैः' इति । महस्विनमुत्सववन्तमिति तवृत्तिः । यत्र यत्रैष व्रजति तत्र तत्रोत्सवपरम्पराः पदे पदे भविष्यन्तीत्यर्थः । रविरपि तेजस्वी इति हेतोः किमुत्प्रेक्ष्यते । पद्मदृशा कमललोचनया नाथीदेव्या तया तन्मण्डलं रविबिम्बमनिशमहोरात्र स्वसदने निजमन्दिरे उजिहानमुदयमानं चकाइ वाञ्छितम् । શ્લોકાર્થ કમલનયના નાથાદેવી પિતાના ઘરમાં નિરંતર સૂર્યના ઉદયને ઝંખતી હતી. જેમ સૂર્ય, કમલને વિકસિત કરનાર, જગતની ચરૂપ, અંધકારને ભેદનાર મનુષ્યોની નિકાને દૂર કરનાર અને મહા પ્રતાપશાલી છે તેમ મારો પુત્ર પણ કમલ જેવી આકૃતિને હાથના પંજામાં (હથેલીની રેખારૂપે ધારણ કરનાર, અજ્ઞાનરૂપી અંધકારને ભેદનાર, તેમજ મહાપ્રભાવશાળી બનશે, અર્થાત તે જ્યાં જ્યાં જશે ત્યાં ત્યાં ઉત્સવઆદિ માંગલિક કાર્યોને કરાવનાર બનશે. આવા પ્રકારના મહાન પ્રતાપી પુત્રની અભિલાષાથી જાણે ઘરમાં સૂર્યોદયને ઝંખતી ન હોય ! પાકા स्वःसानुमन्तमधिरोहुमथात्मदर्शी ___ कर्तुं विधु पुनरपांपतिमुत्तरीतुम् । सिद्धालयेष्वपि सभाजयितुं जिनान् सा, गर्भानुभावत इयेष यथार्हदम्बा ॥१०॥ सा नाथी गर्भानुभावतः शुभगर्भप्रभावात् स्वासानुमन्त सुमेरुम् । 'रत्नसानुः स्वःस्वर्गिकाञ्चनतो गिरिः' इति हेम्याम् । अधिरोदुमध्यासितुं चढि(टि)तुम् । अथ पुनर्विधुं चन्द्रमसमात्मदर्शीकतुं दर्पणं विधातुम् ।स्वाननक्लिोकनायेति शेषः। पुनरन्यत् । अपांपति समुद्रमुत्तरीतु स्वभुजाभ्यामखिलमपि जलमाक्रम्य तीर्वा परतटे प्रयातुम् । अपि पुनः सिद्धालयेषु शाश्वतजिनप्रासादेषु जिनान् शाश्वतनाममाज ऋषभवर्धमानचन्द्राननवारि
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy