SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो० ५-७] सौभाग्यम् १४३ तया नाथीदेव्या स्वमूर्धनि निजमस्तके | उत्प्रेक्ष्यते । इति हेतोः शीतांशुमण्डलं चन्द्रबिम्बं सितातपत्त्रीकर्तुं श्वतच्छत्रं विधातुं स्पृहयांबभूवे आचकाक्षे । इति किम् । यत्तनुजो यस्यास्तनुजः पुत्रो जिनशासनस्य साम्राज्यम् इह भूमण्डले एकमद्वितीयमातपत्र छत्र' विधाता करिष्यतीति । किंभूतम् । इन्दुविशदं चन्द्रकलोज्ज्वलम् ॥ લેાકાય નાથીદેવી પેાતાના મસ્તક ઉપર ચંદ્રમંડલ જેવા શ્વેત ઉજવલ છત્રને ધારણ કરવાની સ્પૃહા કરતી હતી. પેાતાના પુત્ર આ પૃથ્વીતલ ઉપર જૈનશાસનના એકત્રી સામ્રાજ્યને કરનારા થો’ આ હેતુથી જ જાણે ચન્દ્રમ`ડલને છત્રરૂપે બનાવવાની ઇચ્છા કરતી ન હોય ? નાપા प्रेम्णा गुणाननुगुणीकृत वेणुवीणा, एणीदृशः सुमनसामदसीयसूनोः । गान्ति ताभिरिति किं व तया विधातुं, सौहार्दमम्बुजदृशा हृदि काम्यते स्म ||६|| तया अम्बुजदृशा नलिननयनया । उत्प्रेक्ष्यते । इति किं कारणात्ताभिः सुरीभिः सार्धं सौहार्द मैत्र्यं विधातुं कर्तुं हृदि चित्ते काम्यते स्म । वाञ्छ्यते स्म । इति किम् । यददसीयसुनोर्नाथीनन्दनस्य गुणान् शमदमसंयमगाम्भीर्यधैर्यो दार्यस्थैर्यादिकान् सुमनसां देवानां तादृशापरानन्यागण्यग्रामंगानश्रवणेन निजस्त्रैणोपरि नाभ्यसूयन्ति प्रत्युत प्रमोदन्ते इति सुमनसः । तेषामेणीदृशो वशा देव्यः प्रेम्णा हृदयहार्देन स्नेहेन गास्यन्ति । किंभूता देव्यः । अनुगुणीकृताः स्वस्वरानुयायिनीविहिता निजालापसदृशीकृता वेणवो वंशास्तथा वीणा याभिः ॥ લેાકા કમલાક્ષી એવી નાથીદેવી હૃદયમાં દેવાંગનાઓની સાથે મિત્રતાને ઝ ંખતી હતી. પેાતાના પુત્રના શમ, દમ, ધૈર્ય, ઔદા, રથય અને ગાંભીર્યાદિ અગણિત ગુણાને, સ્વરને અનુકુલ વીણા આદિ વાજિંત્રોથી પ્રેમપૂર્વક દેવીએ ગાશે. જાણે આ હેતુથીજ દેવીએની સાથે મિત્રતા કરવાને ઇચ્છતી ન હોય ! ॥૬॥ शौण्डीर्यचङ्क्रमणचारिमदानलीला श्रीभिर्यतो मम सुतस्तमधो विधाता । आरोढुमन्तरिति जम्भनिशुम्भ कुम्भ कुम्भस्थले किमनया हृदि काम्यते स्म ॥७॥ अनया नाथीदेव्या । किमुत्प्रेक्ष्यते । इति हेतोः जम्भनिशुम्भस्य शक्रस्य कुम्भिन ऐरावणस्य कुम्भस्थले स्कन्धप्रदेशे आरोढुं चढितुं काम्यते स्म चकमे । कुम्भस्थले चढित्वा उपवेष्टु ं वाञ्छ्यते स्मेत्यर्थः । यतो यस्मात्कारणात् । शौण्डीर्यस्य पराक्रमस्य ।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy