________________
१४२
हीरसौभाग्यम् [सर्ग ३ श्लो० २-५ तं धारयन्ती भूमी सुषमामासादयति इति सर्वत्र योज्यम् ॥ पुनः केव । शुक्तिरिव । यथा शुक्तिका रसोद्भवं मौक्तिकम् । पुनः केव । घनावलीव । यथा मेघमाला अम्बु जलम् । पुनः केव । शैवलिनीशवेलेव । यथा समुद्रवेला माणिक्यराजी रत्नमण्डलीम् । पुनः केव । विज्ञसमेव । यथा विज्ञानां पण्डितानां सभा समाजः श्रेणी वा विद्यानां विशेषं रहस्यमुपनिषदं वा । 'ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला' इति चम्पूकथायाम् । पुनः केव । प्रासादभूमिरिव । यथा प्रासादस्य जैनविहारस्य भूमिः गर्भामारक्षोणी आप्तस्याहतो विम्बं प्रतिमाम् । बाहुल्येऽपि मूलनायकस्यैवैक्येनैकमेवाप्तबिम्बमिति । पुनः केव । शमीव यथा शमी 'खेजडी'नामातरुर्वायुसख कृशानुम् ॥ पुनः केव । रक्ताङ्कपक्तिरिव । यथा विद्रममालिका कृष्णलतायाः 'कालीवेलि' इति प्रसिद्धायाः प्ररोहमकुरम् । पुनः केव । आत्रेयदृष्टिरिव । यथा अत्रेर्मुनिविशेषस्येयमात्रेयी सा चासौ दृष्टिश्च । अत्रिनामतापससंबन्धिनी दृक् । औषधीनां वल्लभं विधुम् । 'विधुरत्रिदृग्जः' इति हैम्याम् । 'अथ नयनसमुत्थं ज्योतिमत्रेरिव द्यौः' इति रघौ । 'अत्रिजातस्य या मूर्तिः शशिनः सजनस्य च' इति चम्पूकथायाम् । पुनः केव । धात्रीव । यथा भूमिर्निधानम् । पुनः केव । शैलगुहेव । यथा गिरिकन्दरा केसरिणं सिंहम् । पुनः केव । कंसारिनाभिकजकोशकुटीव । यथा कंसारेः कृष्णस्य नाभिस्तत्रोद्भूतं यत्कजं कमलं तस्य कोशः कुड्मलं स एव कुटी पर्णतृणाच्छादितसदनं सा शंभु ब्रह्माणम् । 'शंभुर्ब्रह्माहतोः शिवे' । 'नारायणनाभ्यम्भोरुहकुहरकुटीमधिशयानस्य' इति चम्पूकथायाम् । प्रागुक्तमस्ति । नाभिभव त्वेनेयमुपमा । 'नाभिपद्मात्मभूरपि' इति हैम्याम् ॥ इति गर्भाधानम् ॥
सार्थ અગણિત સંપત્તિના માલિક હેવાથી લક્ષ્મીવાને માં ઈદ્ર સમાન એવા કરાશાહની કમલ જેવા નેત્રોવાળી અને ચન્દ્ર જેવા મુખવાળી પત્ની નાથીદેવીએ ઉત્કૃષ્ટ શોભા પ્રાપ્ત કરી. તે જાણે શરદઋતુના ચન્દ્રમંડલથી એના મુખની આખી રાત આરતિ કરાતી ન હોય ! તથા ઘાસવડે ઢંકાયેલી શેરડીના અંકુરાને જેમ પૃથ્વી ધારણ કરે તેમ ગર્ભ ધારણ કરવા લાગી. પરા
જેમ છીપ મોતીને, મેઘમાલા પાણીને, સમુદ્ર રોના સમૂહને, પંડિતોને સમૂહ શાસ્ત્રોના રહસ્ય (પરમાર્થ)ને, જિનચૈત્ય અરિહંત ભગવાનના બિંબને, શમીવૃક્ષ અગ્નિને, વિદ્યુમમાલા (પરવાળાની પંકિત) ચિત્રાવેલના અંકુરાને, અત્રિઋષિની દષ્ટિ ચન્દ્રને, (અત્રિમુનિના નેત્રમાંથી ચંદ્રની ઉત્પત્તિ મનાય છે.) પૃથ્વી નિધાનને, પર્વતની ગુફા સિંહને, અને કૃષ્ણની નાભિમાંથી ઉત્પન્ન થયેલા કમલના કેશરૂપી કુટીર (મું પડી) જેમ બ્રહ્માને ધારણ કરે છે, તેમ ગર્ભને વહન કરતી નાથીદેવી અદભુત સૌર્યને ધારણ કરનારી બની. રાજા
एकातपत्रमिह यत्तनुजो विधाता,
साम्राज्यमिन्दुविशदं जिनशासनस्य । शीतांशुमण्डलमितीव सितातपत्री
कर्तु स्वमूर्धनि तया स्पृहयांबभूवे ॥५॥