SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो०१-४ा हीरसौभाग्यम् श्रुतिः । पुनः केव । इभकपोलपालीव । यथा गजेन्द्रगण्डस्थलम् । पालीशब्दो दीर्घोऽप्य. स्ति । यथा-कालिन्दीकूलपालीषु' इति पाण्डवचरित्रे । अन्तर्मध्ये मदानां दानजलानामुदयं प्रादुर्भावं धत्ते । 'अन्तर्मदावस्थ इव द्विपेन्द्रः' इति रघौ ॥ . . est સ્વદર્શન અને ધર્મજાગરિકા કર્યા પછી નાથીદેવી ગર્ભ ધારણ કરતી હતી. જેમ મેરુપર્વત કલ્પવૃક્ષના અંકુરને ધારણ કરે છે, વિદૂર પર્વતની ભૂમી વર્ષાઋતુના મેઘની ગંભીર ગર્જનાના ધ્વનિથી ઉત્પન્ન થયેલા વૈદુર્ય રત્નને ધારણ કરે છે, તેમજ હાથીનું કુંભસ્થલ જેમ મધ્યભાગમાં મદજલ વહન કરે છે તેમ નાથીદેવી ગર્ભને વહન કરતી હતી. તે श्रीमन्महेभ्यपुरुहूतपयोरुहाक्षी, नाराज्यमानवदना शरदिन्दुबिम्बैः । . आसेदुषी शशिमुखी सुषमां दधाना, .. गर्भ पलालपिहितेक्षुशिशु क्षमेव ॥२॥ शुक्ती रसोद्भवमिवाम्बु धनावलीव, ____ माणिक्यराशिमिव शैवलिनीशवेला । विद्याविशेषमिव विज्ञसभाप्तबिम्ब, प्रासादभूमिरिव वायुसखं शमीव ॥३॥ रक्ताङ्कपछितरिव कृष्णलताप्ररोह ___ मागेयदृष्टिरिव वल्लभमौषधीनाम् । धात्री निधानमिव शैलगुहेव सिंह, कंसा.रेनाभिकजकोशकुटीव शम्भुम् ।।४॥ - (त्रिभिर्विशेषकम् ) श्रीमतः शोभाभाजो गणनातीतलक्ष्मीकलितस्य वा, महेभ्यानां अत्युच्चशिलोच्चयप्रमाणवारणपरिमाणसुवर्णवतां व्यवहारिणां मध्ये पुरुहूतस्य इन्द्रस्य सर्वेभ्योऽपि लक्ष्म्या अतिशायित्वात् कुरासाधोः पयोरुहाक्षी कमलनयना स्त्री नाथीनामा पत्नी सुषमा सातिशयिनी शोभामासेदुषी प्राप्तवती । लेमे इत्यर्थः । किंभूता । शशिमुखी चन्द्रानना । किं क्रियमाणा । शरदिन्दुबिम्बैः शरत्कालसंबन्धिमृगाङ्कमण्डलैः । अर्थात् वेधसा भ्रमणीक्रियाभिः । नीराज्यमानमारात्रिक क्रियमाणं वदनं मुखं यस्याः । पुनः किं कुर्वाणा । गर्भ धारयन्ती । केव । क्षमेव । यथा पलालैान्यत्वग्भिः पिहितमाच्छादितमिक्षुशिशु बालरसालप्ररोहम् । 'इक्षुः स्याद्रसालोऽसिपत्रकः' इति हैम्याम् । 'रसाल इश्क्षौ चूते च' इत्यनेकार्थः । 'पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भः' इति नैषधे ।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy