________________
१४०
सौभाग्यम्
यं प्रात शिवासाधुमघवा सौभाग्यदेवी पुनः, श्रीमत्कोविद सिंहसी हविमलान्तेवासिनामग्रिमम् ।
तद्ब्राह्मीक्रमसेविदेवविमलब्यावर्णिते ही यु
क्सौभाग्याभिधहीरसूरिचरिते सर्गो द्वितीयोऽभवत् ॥ १४२ ॥
[ सर्ग २ - ३ श्लो० १४२-१
पण्डितश्रीदेव विमलगणिव्यावर्णिते हीरसौभाग्याभिधे महाकाव्ये हीर विजयसूरिचरिते द्वितीयः सर्वोऽभवत् जातः ॥
इति पण्डितश्रीसीहविमलगणिशिष्यपण्डितदेव विमलगणिविरचिते हीरसौभाग्यनानि महाकाव्ये कुंरानाथीगजस्वप्न-तजागरिका-ऋषभदेवभर तदिग्विजय-सखीकथितभरतदिग्विजयादि- रात्रिविरामदिनकरोदयवर्णनो नाम द्वितीयः सर्गः ॥
લેાકા
વણિકકુલમાં ઇન્દ્રસમાન એવા શિવ નામના શ્રેષ્ઠી અને સૌભાગ્યદેવીના જન્મજાત સુપુત્ર વિમલગણિ કે જે નિરંતર સરસ્વતીની ઉપાસનાને કરનાર1, તે સČમુનીઓમાં સિંહસમાન એવા સિંહવિમલગણીના પ્રથમશિષ્ય તરીકે પ્રસિદ્ધ થયા. તે દેવવિમલગીએ જેમાં જગદ્ગુરુ શ્રી હીરવિજયસૂરિજીનુ સ`પૂર્ણ ચરિત્ર આવે છે, એવા ‘હીરસૌભાગ્ય' નામના મહાકાન્યની ટીકા સહિત રચના કરી, તેમાં આ પુરાશાહ અને નાથીદેવીના વર્ણનથી આર ંભીને સ્વમદન અને શેષરાત્રિ નિર્ગમન સુધીના વર્ણન વાળો બીજો સ સમાસ થયેા. ૫૧૪૨ા
तृतीयः सर्गः ।
कल्पद्रुमाङ्कुरमिवामरशैलभूमी,
रत्नं विदूरधरणीव घनस्वनोत्थम् ।
अन्तर्मदोदयमिवेभकपोलप, ली,
नाथी ततोऽवहत दोहदलक्षणं सा ॥१॥
ततः स्वप्रदर्शनधर्मजागरिकाकरणानन्तरं सा कुंरामहेभ्यपत्नी नाथीदेवी दोहदलक्षण गर्भमवहत धत्ते स्म । 'सुदक्षिणा दोहदलक्षणं दधौ' इति रघुवंशे । तथा गर्भस्तु गरभो - भ्रूणो दोहदलक्षणं च सः' इति हैम्यामपि । केव । अमरशैलभूमीव । यथा मेरुमही कल्पद्रुमाङ्कुरं सुरतरुप्ररोहं वहते । पुनः केव । विदूरधरणीव । यथा विदूरपर्वतस्य पृथिवी । 'यथा विदूरीन्दिरदूरतां गमी' इति नैषधे । घनस्वनोत्थं प्रावृट्समयप्रादुर्भूतं पयोधरधीरगर्जारवश्रवणसमुद्भूतं रत्नं वैदू (इ) ये नाम मणि विभर्ति । प्रावृट्काले हि सजलजलधरौर्जितगर्जिताकर्णनसमये एव विदूरभूधरभूमौ वैदू (इ) र्यरत्नशलाकाः प्रादुर्भवन्तीति