________________
सर्ग २ श्लो० १३७-१३८] हीरसौभाग्य
१३७ १हेभाजनिर्यासपिशङ्गितैः ...........
" ॥१३७|| हे स्वामिनि, हेम्न इमानि हैमानि अब्जानि तेपां निर्यास रसैरर्थात् परागमकरन्दैः पिशङ्गितैः पिङ्गीकृतैः सितच्छदैहँसैः कृत्वा पल्वलाः सरोवराणि भान्ति । उत्प्रेक्ष्यते । वतंसः स्वर्णशेखरैरिव । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । अपि पुनः क्रौञ्चैः प्रसिद्धैः पक्षिविशेषैः क्रियते प्रभातप्रथमारम्भोत्थितैः केंकारवो विधीयते । किमुत्प्रेक्ष्यते । कजाश्रये पद्माकरे पद्मसननि वा प्रवेशे प्रवेशकरणमहोत्सवे तूर्यनिःस्वनैः किम वादित्रनिर्षिरिव ॥
હે સ્વામિની! સુવર્ણ કમલોમાંથી ખરી પડેલા પરાગ અને રસવડે પીતવર્ણવાળા થયેલા હસોથી સરોવર શોભે છે, તે જાણે સુવર્ણનાં શિખરો ન હોય! વળી પ્રભાત સમયે ક્રૌંચપક્ષીઓ કેકારવ શબ્દ કરે છે, તે શબ્દ જાણે પ્રવેશ કરવા માટેના પ્રવેશમહોત્સવના મંગલ વાજિંત્રોને અવાજ ન હોય! તેમ જણાય છે ૧૩૭
वाता वान्ति स्मितकजसरिद्वारि कल्लोलयन्तो,
___ मन्दं मन्दं स्खलितगतयः स्त्रैणवक्षोजशैलैः । जातिस्नेहात्किमिह मिलितुं कम्पितैराननाना
माजानेया अपि हरिहयानाह्वयन्ते विभाते ।।१३८॥ हे स्वामिनि, वाताःप्रातर्वायवो वान्ति । वातास्त्रिविधाः वय॑न्ते शीता मन्दाः सुरभयश्च । तदेव दर्शयति-किंभूता वाताः । स्मितानि विकसितानि कजानि कमलानि यत्र तादृश्याः सरितो नद्या वारि प्रवहत्पयःपूरं कल्लोलयन्तः लहरीकलितं कुर्वन्तः उत्तुङ्गरङ्गत्तरङ्गयुक्तं विरचयन्तः । एतावता कमलकलितजलकल्लोलनेन सुगन्धवं शीतत्वं च दर्शितम् । पुनः किंभूताः मन्दं मन्दं शनैः । 'मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्' इति मेघदूतकाव्ये । स्खलिता मन्दीभूता भाना वा गतियेयाम् । कैः । स्त्रैणस्य युवतीजनवजस्य वक्षोजशैलैः विकञ्चुकितकुचाचलैः । एतावता मन्दत्वं च इति त्रिधापि वाता दर्शिताः । अपि पुनर्विभाते दिनोदयसमये आजानेयाः कुलीनाश्या आननानां वक्त्राणां कम्पितर्वलनैरूधिःकरणैर्हरेरिन्द्रस्य रवेर्वा हयांस्तुरङ्गान् । 'हरि विदित्वा हरिभिश्च वाजिभिः' इति रघुवंशे । इत्ति प्रसिद्धोच्चैःश्रवस्येकस्मिन्नश्वेऽपि इन्द्रस्याश्वबाहुल्यम् । तथा-'पर्य(ज)न्यहर्यश्वऋभुक्षिबाहु-' इति हेम्याम् । उच्चैःश्रवाः श्वेताश्वः । हरयो नीलवर्णा अश्वा यस्येत्यन्यहरिद्वर्णवाजिसद्भावः प्रोक्तः । रवेस्तु तुरामाणां सप्तत्वेन वाहुल्यमेवास्ते । आह्वयन्ते आकारयन्ति । किमुत्प्रेक्ष्यते । जातेरश्वानां कुलस्य स्नेहाप्रीतेः मिलितुमिह भुवि उच्चैर्गमनशक्त्यभावाद् भूमीमण्डले स्वसमीपे वा किमाह्वयन्ते ॥
१. अय' मूलप्रलोकस्युटितः पुस्तके नोपलभ्यते ।