________________
सर्ग २ श्लो० १३३-१३४]
हीरसौभाग्यम्
લોકાથ
હે હસમુખી સ્વામીની, પૂર્વ દિશાનું મુખ ઉજળું થયું છે, જે, કારણકે જેનો પ્રસવકાળ આવી લાગ્યો છે એવા પ્રકારના સૂર્યરૂપી ગર્ભને ધારણ કરનારી, ગર્ભના ભારથી કંઈક ખેદવાળી થયેલી અને તારારૂપી અલ્પ આભૂષણોને ધારણ કરનારી પૂર્વદિશા, ગર્ભિણી સ્ત્રીની જેમ પાંડરવર્ણવાળી બની અર્થાત અરુણોદય થયો. ૧૩૨૫
तमस्विनीशेऽस्तमिते प्रकाशतां, विलोकयास्ये दधतेऽखिला दिशः । कलङ्किदोषाकररुद्रसङ्गिनां, वहन्ति के न व्यसनोदये मुदम् ॥१३३॥
हे स्वामिनि, त्वं विलोकय निरीक्षस्व । तमस्विनीशे निशानायके चन्द्रे अस्तं नाशं क्षयं वा इते प्राप्ते सति अखिलाः सर्वा अपि दिशः आस्ये मुखे प्रकाशतां प्रकटतां नक्तं तु तमिस्रवस्त्रेणाच्छादितत्वादव्यक्तता जातासीत् । प्रभाते पुनस्तमःपटोत्सारणाप्रकटत्वं हर्षहास्यं वा दधते धारयन्ति । 'प्रकाशः स्फुटहास्ययोः' इत्यनेकार्थः । युक्तोऽयमर्थः । कलकिनामपवादवताम् । 'कलकोऽङ्कापवादयोः । कालायसमलावपि' इत्यनेकार्थः । तथा दोषाकराणां निखिलापगुणखनीनां रुद्रस्य चण्डस्य जनसंहारकारिणः सङ्गोऽस्त्येषामिति रुद्रसगिनस्तेषाम ।'क्षये जगज्जीवपिवं शिवं वदन्' इति नैषधे । पश्चात्कर्मधारयः । पाप्मवतीपतीनां च । तमोऽज्ञानेऽन्धकारे च पाप्मनि' इत्यनेकार्थः । पुंसां व्यसनोदये आपत्प्रकटीभावे के जना मुदं हर्ष न वहन्ति बिभ्रति । अपि तु सर्वेऽपि मुदमावहन्ते ॥
કાર્ય હે શ્વામિની ! તું આકાશ ઉપર નજર તો કર ! ચન્દ્રનો અસ્ત થવાથી સર્વદિશાઓ મુકતહાસ્ય વેરી રહી છે. અર્થાત અંધકારરૂપી વસ્ત્રને દૂર કરવાથી પ્રગટ થયેલી છે. કારણ કે ચન્દ્ર, કલંકી, સમસ્ત દોષોની ખાણ, અને જગતને સંહાર કરનાર એવા દ્ધનો સંગી કહેવાય છે. પાપાત્મા પુરુષના આપત્તિકાળમાં કેને આનંદ ન થાય ? અર્થાત સહુ કોઈ હર્ષને ધારણ કરે. ૧૩૩
इतः श्रियानिर्जितविश्वयौवते, सयुज्जिहानः सविता निपीयताम् । किमु स्फुरद्भाग्यभरो विभावरी-वियुज्यमानद्विजसंततेरसौ ॥१३४॥
हे श्रिया स्ववपुर्लक्ष्म्या निर्जितानि पराभूतानि विश्वेषां त्रयाणां जगताम् । त्रैलोक्यस्यापीत्यर्थः । यौवतानि युवतीसमूहा यया तस्याः संबोधने श्रियानिर्जितविश्वयौवते । अलुक्समासः।हे स्वामिनि, इतः अस्मिन् पाचँ । प्राच्यां दिशीत्यर्थः । उजिहानः समभ्युदयन् । 'मुखेन्दुनानेन सहोजिहानाम्' इति नैषधे । 'उज्जिहानासुदयन्तीम्' इति
। सविता सूर्यस्त्वया निपीयतां सादरमवलोक्यताम् । यथा सूर्योदयः संजात