________________
हीरसौभाग्यम्
[सर्ग २ श्लो० १३०-१३२
શ્લોકાર્થ જેણીના મુખની શોભાથી શરદ પૂર્ણિમાને ઉગતા ચંદ્ર દાસરૂપ બન્યો છે એવી હે ચન્દ્રમુખી વનમાં કુમુદજાતિના પુષ્પ સંકુચિત થઈ ગયાં ! ભ્રમર જેવી સ્લામીકીવાળા તારાં વિકરવર એ નેત્રોરૂપી કમલને જોઈને જાણે લજજાના ભારથી એ કુમુદપુષ્પ ગ્લાનમુખવાળા બની ગયાં ન હોય ? તેમ જણાય છે. ૧૩૦ના
कृशाङ्गि राजन्यपयातवैभवेऽ-पराश्रये शोच्यदशावशंवदे ।
शनैः शनैस्तारगणा इवानुगा, विभावयाभ्रे विरलीभवन्त्यमी ॥१३१॥
हे कृशागि तन्वङ्गि, त्वमभ्रे नभसि विभावय पश्य । अपयातवैभवे गतश्रीके राजनि भूपाले चन्द्रे च अनुगाः सेवका इव अमी दृश्यमानास्तारगणा ज्योतिबेजाः शनैः शनैर्विरलीभवन्ति स्तोका जायन्ते । किंभूते राजनि । अपरेषां सश्रीकाणामाश्रयो भाजनं यस्य । गताखिललक्ष्मीको हि तदर्थ सश्रीकं परं श्रयते इति स्थितिरेवेति । तत्त्वतस्तु अपरस्यां पश्चिमायामाश्रयो वेश्म यस्य । पुनः किंभूते । शोच्या शोचनार्हा दशा अवस्था तस्या वशंवदे आयत्ते ॥
શ્લેકાર્થ પતલા શરીરવાલી એવી હે સખી ! તું આકાશમાં જે, વૈભવ ચાલ્યા જવાથી શોભાહીન બનેલા ચંદ્રને જોઈને, તારાઓ પણ ધીમે ધીમે અલ્પ થતા જાશ છે. વૈભવ ચાલ્યો જવાથી પરાશ્રિત રાજાની જેમ શોચનીય દશા થાય છે અને સેવકવર્ગ પણ ઘટતો જાય છે, તેમ ચંદ્ર પણ પશ્ચિમ દિશાના આશય જવાથી તારાઓનો સમૂહ પણ ધીમે ધીમે જાય છે. ૧૩૧
प्रपूर्णपाथोरुहवन्धुगर्भिणी, तनूभवत्तारकतारभूषणा । हरेईरित्पाण्डुरिमाणमानने, विभर्ति मत्तेभगतेव सुस्मिते ॥१३२।।
सु शोभनं स्मितमीपद्धसनं यस्यास्तस्याः संवोधने हे सुस्मिते । एतावता बहुहासनिषेधः । हरेरिन्द्रस्य हरित् दिक् पूर्वा आनने मुखे पाण्डुरिमाणमौज्ज्वल्यं धत्ते । किंभूता । प्रपूर्णः संपूर्णाभूतः प्रसवसमयं प्राप्तः पाथोरुहाणां पद्मानां वन्धुः भास्वान् स एव गर्भोऽस्त्यस्याः । अत एव । पुनः किंभूता । तनूभवन्तः स्तोकीभावं भजन्तः प्रभातत्वात्तारकास्तारा एव ताराण्येवोज्ज्वलानि भूषणानि यस्याः सा । केव । मत्तभगतेव (मत्तेभस्य गतमिव गतं यस्याः सा) । यथा आपन्नसत्त्वा स्त्री वक्त्रे पाण्डुरतां धत्ते । किंभूता। संपूर्णो भाग्यवत्तया भानुवत्स्वयं दीप्यमानो मातुश्च दुःप्रेक्ष्यतेजः करोति । यथा-धामैकधामगगङ्गाया गङ्गाया इव भास्करम् । गर्भमन्तर्दधानाया दुरालोकमभूद्वपुः ॥' इति पाण्डवचरित्रे । गर्भोऽस्त्यस्या एतावता नाथीदेव्या भास्वत्संनिभो गर्भो भावीत्यसूचि । पुनः किंभूता । गर्भोद्भवात्खेदादल्पीभवत्तारकवदुज्ज्वलमौक्तिकाभरणानि यस्याः । 'शरीरसादादसमग्रभूषणा' इति रघुकाव्ये ॥