________________
सर्ग २ श्लो० १२८ - १३०]
हीरसौभाग्यम्
१३३
शश: अड़के चक्षुषि ? (वक्षसि) उत्सङ्गे वा यस्य 'अङ्कः क्रोडेऽन्तिकागसोः' इत्यनेकार्थः । अत एवोत्प्रेक्ष्यते । नभः श्रिया गगनलक्ष्म्यास्तारका ज्योतिर्गणा उज्ज्वलानि वा मौक्ति कानि तेषां स्रजो मालायाः । हारस्येत्यर्थः । पणनाभ्याः कस्तूरिकायाः शितिमा श्यामत्वमङ्के क्रोडे यस्य कस्तूरीकलितमध्यो नायको मध्यमणिः किम् ॥
શ્લાકા
ખીજી સખી આદરપૂર્વક પેાતાની સ્વામિનીને દ્રષ્ટિથી ચંદ્રને દેખાડતી આ પ્રમાણે ખેલી હે સખી ? આ ચન્દ્ર, આકાશલક્ષ્મીની તારારૂપી ઉજ્વલ મેાતીએની માલાનેા કસ્તૂરીની કાલિમાવાળા જાણે મધ્યમણિ (પે*ડલ) ન હોય ! ૫૧૨૮૫
निजाक्षिलक्ष्मीहसिताब्जखञ्जनेऽ-धरीकृतः सुभ्रु तवास्यविभ्रमैः ।
विवर्णताश्लेपिमुख पाभरा - दिवास्ततां याति तमस्विनीपतिः ॥ १२९ ॥
निजस्यात्मनः । यद्वा निजयोरात्मीययोरक्ष्णोर्नयनयोर्लक्ष्म्या शोभया हसिता निर्भत्सिता अब्जानि उत्पल कुमुदजातियावत्कमलानि, तथा खञ्जनाः खञ्जरीटा यया तस्याः संबोधनं हे निजाक्षिलक्ष्मीहसिताब्जखञ्जने । तथा शोभने भ्रुवौ यस्यास्तस्याः संबोधनं हे सुस्रु, तमस्विनीपतिश्चन्द्रोऽस्ततां याति । उत्प्रेक्ष्यते । त्रपाभराल्लजातिशयादिव किम् अधरीकृतो हीनो विहितः जित इत्यर्थ । कैः । तवास्यविभ्रमैः भवन्मुखश्रीभिः । अत एव किंभूतः । विवर्णताया विच्छायताया आलेषो यत्र तादङ्मुखं यस्य ॥
શ્લાકા
પેાતાના નત્રોની શૈાભાથી જેણે સમસ્ત કમલાના તિરસ્કાર કર્યા છે, એવી હું કમલનયના સુંદર ભ્રમરાવાળી હે સુભ્ર ? આ ચંદ્ર કેવા અસ્ત પામે છે ! આ ચન્દ્ર, તારા મુખના વિલાસથી પરાભવ પામવાથી, અતિશય લાના ભારથી મ્લાન મુખવાળેા થઈને, કેવા અસ્ત પામે છે ?
૫૧૨૯ા
निजास्यदासीकृतशारदोदय - त्सितद्युते भृङ्गिततारतारके ।
विनिद्रतां वीक्ष्य तवेक्षणाम्बुजे, ह्रियेव निद्राति कुमुद्वनं वने ॥१३०॥
निजेनात्मीयेनास्येन कृत्वा दासीकृतः किंकरतां प्रापितः शारदः शरत्कालसंबन्धी उदयन्नभस्युद्गच्छन् सितद्युतिश्चन्द्रो यया तस्याः संवोधने निजास्यदासीकृतशारदोदयत्सितद्युते हे स्वामिनि, वने कानने जले वा स्थलेऽपि कमलिनीकमलसद्भावो दृश्यते । यथा - ' ददर्श तत्रस्थलपद्मिनी नलः' इनि नैषधे । तथा - 'उत्फुल्ल स्थलपद्माभभवच्चरणभूषिता' इति चम्पूकथायाम् । कुमुद्वनं कैरवकाननं निद्राति संकुचति । उत्प्रेक्ष्यते । भृङ्गिते भृङ्गाविवाचरिते श्यामलत्वात् तारे निर्मलतारिके कनीनिके यत्र तादृशं तव श्रीमत्या ईक्षणं लोचनमेवाम्बुजं कमलं तत्र विनिद्रतां विकाशतां वीक्ष्य विलोक्य यदा कमलं विकसति तदा कुमुदं संकुचतीति स्थितिः । ह्रियेव लज्जयेव क (त) स्मात्स्वस्य हीनश्रीकत्वात् त्रपा ॥