________________
१३२
सौभाग्यम् [ सर्ग २ श्लो० १२६ - १२८
करेणुकुम्भस्तनि पश्य दीप्यते ऽन्तिके मणीकुट्टिमविम्वितारकैः । त्वदाननस्त्रामिसितांशुसेवना - कृते नमस्तः किमुपागतैरिह || १२६||
करणोर्हस्तिनः कुम्भौ शिरसः पिण्डाविव पीनावुच्चौ स्तनौ कुचौ यस्यास्तस्याः संबोधनं हे करेणुकुम्भस्तनि कुम्भिकुम्भपीनोच्चकुचकलशे स्वामिनि, त्वं पश्य निरीक्षस्व । अन्तिके श्रीमत्याः समीपे मणिमकुट्टिमविम्बितार कैर्विविधरत्ननिबद्धसौधप्राङ्गणभूमौ विम्वन्ति अतिस्वच्छवस्तुनि संक्रामन्ति इति विम्बानि विम्बान्यस्त्ये ( नि सन्त्ये ) षां तादृशैस्तारकैज्र्ज्योतिर्भिर्दीप्यते । किमुत्प्रेक्ष्यते । त्वदाननं तव मुखमेव स्वामी पतिः सितांशुश्चन्द्रस्तस्य सेवनाकृते पर्युपासनां कर्तुं किमु नभस्तो गगनादिह त्वद्गृहाइगणे समागतैः समेतैरिव ॥
લેાકા
હસ્તિનાકુંભથ્થા જેવા પુષ્ટ અને ઉંચા સ્તનવાળી હે સ્વામિનિ ! તું આ બાજુ જો ! મહેલની ભીંતામાં જડેલાં વિવિધપ્રકારનાં તે અને મણિમાં પ્રતિબિંબિત થયેલી તારાઓની શ્રેણિઓ કેવી શાભે છે ! તારા મુખરૂપી ચંદ્રની ઉપાસના કરવા માટે આકાશમાંથી ઉતરીને નણે તારા ગૃહાંગણમાં આવીને રહી ન હોય !!૧૨૬॥
त्वदीयवापीतपनास्तमुद्रिता-म्बुजन्मकोशव्यसनानुपातिनः ।
क्षपाक्षयायोंकृतिमन्त्रवर्णका - निव द्विरेफा गणयन्ति गुञ्जितैः ॥१२७॥
हे स्वामिनि, त्वदीयवाप्यां तव क्रीडाग्रहदीर्घिकायां तपनस्य सूर्यस्यास्तेन परद्वीपोपगमनेनादृश्यीभावेन । 'तेजोऽवसाने व्रजति द्वीपान्तरमहर्मणिः' इति सूक्तवचनात् । मुद्रितानां निमीलितानां मुकुलीभूतानामम्बुजन्मनां कोशेषु यद्वन्धलक्षणं व्यसनमापत् कोशान्तदुःखस्थितिविपत्तिस्तामनुलक्षीकृत्य ज्ञात्वैव । यत्पद्ममुद्रणायां यामिनीं यावत्को - शान्तरदुःखेन स्थातव्यमेवेति विचार्य पतन्तीत्येवंशीलाः पातिनः । पतित्वा स्थिता इत्यर्थः । द्विरेफा भ्रमराः । अत एवोत्प्रेक्ष्यते । गुञ्जितैर्गुञ्जारवैः कृत्वा क्षपाक्षयाय निशानाशाय । ओंकृतिमन्त्रवर्णकान्न ओंकारपूर्वकवर्णस्तस्याक्षराणि गणयन्ति जपन्तीव ॥
શ્લેાકા
હું સ્વામિની ! તારી ક્રીડાવાવડીમાં, સૂર્યાસ્ત થવાથી સંક્રાચ મામેલા કમલના કાશ (ડેડા)માં ભરાઈ જવાથી બંધનરૂપ વિપત્તિને અનુલક્ષીને, રાત્રીને નાશ કરવા ઇચ્છતા ભ્રમર, પેાતાના ગુંજારવના શબ્દોથી જાણે એકારમંત્રના અક્ષરને જાપ કરતા ન હોય ! ॥૧૨ણા
नभः श्रियास्तारकमौक्तिकस्रजः, किमेणनाभीशितिमाङ्कनायकः ।
ear विनिर्दिश्य शशाङ्कमादरात् परा ददे कापि गिरं मृगेक्षणा ॥ १२८ ॥
"
परा अन्या कापि मृगेक्षणा सखी आदरात् तस्यां स्वस्वामिन्यामतिबहुमानादिरं वाणीमाददे। जग्राहेत्यर्थः । किं कृत्वा । दृशा नेत्रेण शशाङ्क चन्द्र ं विनिर्दिश्य दर्शयित्वा । यतः