________________
सर्ग २ श्लो० ११९-१२१]
हीरसौभाग्यम्
१२९
रिभिर्मध्यपदलोपे नृपैः । भरतादारभ्य अष्टपट्टधरै राजभिरित्यर्थः । अमुनेव भरतचक्रिणेव आदर्शगृहे केवलेन्दिरा केवलज्ञानलक्ष्मीरवाप्यत प्राप्ता । उत्प्रेक्ष्यते । दिगन्तवासं दिशां प्रान्ते वसतिमपास्य त्यक्त्वा काश्यपी भूमिस्तस्यां विलासः स्थानवैशिष्ट्य क्रीडनं वा तत्र शीलं स्वभावो येषां तैः । 'लीला केलिविलासश्च शृङ्गारभावजक्रिया' इत्यनेकार्थः । केलिः क्रीडा विलासः स्थानवैशिष्ट्यमित्येवंभूतैः ककुभां पुरंदरैरदिक्पालैः किम् । 'आखण्डलो दण्डधरः शिखावान्पतिः प्रतीच्या इति दिइमहेन्द्रैः' इति नैषधे ॥
લેાકા
હે સુંદરવાળવાળી ! ભરતરાજાથી આંરભીને આપાટ સુધીના રાજાઓએ પણ ભરતચક્રવર્તીની જેમ આરિસાભુવનમાં કૈવલ્ય લક્ષ્મીને પ્રાપ્ત કરી હતી. જેમ ક્રીડારત દિક્પાલા, દિશાઓના છેવાડે આવેલા પેાતાના રહેઠાણના ત્યાગ કરીને વિલાસ માટે કોઇ વિશિષ્ટ સ્થાનને પ્રાપ્ત કરે છે, તેમ આર્દ્રપાટ સુધીના રાજાઓએ પરમાનંદ આપનારી કૈવલ્ય લક્ષ્મી પ્રાપ્ત કરી હતી. ૫૧૧૯મા
ततोऽस्य संख्यातिगपट्टपतिभिः प्रपद्य शत्रुंजयमूर्ध्नि केवलम् । महोदयश्रीः समसेवि भास्करै - रिवोदयं द्यौरुदयावनीधरे ॥१२०॥
ततः अष्टमपट्टधरदण्डवीर्यराजानन्तरमस्य भरतचक्रिणः संख्यामतिगच्छन्त्यतिक्रामन्तीति संख्यातिगाः । कर्मणि डः । ताभिः । असंख्याताभिरित्यर्थः । पतिभिः पट्टधरराजराजीभिः शत्रुंजयमूर्ध्नि विमलाचल शिखरे केवलं केवलज्ञानं प्रतिपद्यासाद्याधिगत्य महोदय श्रीर्मुक्तिलक्ष्मीः समसेवि संसेविता । कैरिव । भास्करैरिव । यथा दिवाकरेरुदयावनीधरे पूर्वपर्वते उदयमुद्गममवाप्य द्यौर्गगनमण्डली सेव्यते ॥
શ્લેાકા
આઠમા દંડવીરાજા પછીના અસ`ખ્ય પાટ સુધીના રાજાઓ, શત્રુ ંજ્ય પર્વતના શિખર ઉપર કેવળજ્ઞાનને પ્રાપ્ત કરીને મેાક્ષલક્ષ્મીને વર્યાં હતા, જેમ સૂર્યાં પૂર્વાંચલ પર્યંત ઉપર ઉદય પામી અનંત આકાશ મંડળીને સેવે છે તેમ આ રાજાએ પણ મેાક્ષલક્ષ્મીને સેવનારા બન્યા. ૫૧૨૦ના
बभूवुरिक्ष्वाकुकुले सहस्रशः, सहस्रशोचिः सदृशा महौजसा ।
ततः क्षितीन्द्रा जगदीहितावडा, महेन्द्रशैले सुरभूरुहा इव ॥ १२१ ॥
ततः संख्यातिगपट्टपरंपराप्रान्तवर्तिजितशत्रुभूपतिरासीत्तेन स्वसुताजिततीर्थकृते राज्यं विश्राणितम्, श्रीभगवता च स्वपितृभ्रातृसुमित्रधात्रीपतिपुत्राय सगरकुमाराय राज्यं प्रददे, स क्रमाच्चक्री भूत्वा चारित्रमादाय सिद्धः । सगरचक्रिणोऽनन्तरम् इक्ष्वाकुकुले सौधर्मेन्द्रेण स्वयं स्थापितस्य श्रीऋषभदेवस्य वंशे सहस्रशः अर्थादसंख्याताः (सहस्राः) क्षितीन्द्राः पृथिवीपुरंदरा राजानो बभूवुः संजाताः । किंभूताः । महौजसा अतिशायिप्रतापैः सहस्रशोचिषः सूर्यस्य सदृशास्तुल्याः पुनः किंभूताः । जगदी हितावहाः