SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सर्ग २ श्लो० ११०-११२] हीरसौभाग्यम् १२५ શ્લેકાર્થ આ પ્રકારે વેત અને ભદ્રજાતિના ગંધહસ્તિઓની શોભાથી સુશોભિત ભરચક્રવતની ચતુરંગી સેના સમુદ્રપર્યતની ચારે દિશામાં વ્યાપીને રહી હતી. જેમ દેદીપ્યમાન વાદળાવડે આકાશમાં પ્રસરતો મેઘ ચારે દિશામાં વ્યાપ્ત બને છે તેમ ચક્રીની સેના વ્યાપીને રહી હતી. ૧૧માં अथैप वेलातटतः समं भटै-य॑वीवृतन्नीरधिनेमिनायकः । गभीररावैरुदरं भरन्भुवो, रयः पयोधेरिव यादसां भरैः ॥१११।। अथ चतुर्दिग्विजयानन्तरमेष वर्ण्यमानवोत्कर्षों नीरधिनेमेरासमुद्रान्तपृथिव्या नायकः पतिर्भरतचक्रवर्ती वेलातटतः समुद्रस्य वेलाया जलवृद्धिस्थानकस्य तटात्तीराझटैः सेनाचरैः शूरैः समं सार्ध न्यवीवृतन्निवर्तते स्म । पश्चाद्ववले इत्यर्थः । क इव । रय इव । यथा पयोधेः समुद्रस्य रयः पयःप्रवाहः। 'प्रवाहः पुनरोघः स्याद्वेणी धारा रयश्च सः' इति हैम्याम् । यादसां नऋचक्रपाठीनपीठादीनां भरैः व्रजैः साकं वेलातटान्निवर्तते । किंभूत एष रयश्च । गभीररावश्चतुरङ्गतुरङ्गगजस्यन्दनपदातिप्रवलवलचलनोद्भूतैः स्वभावजैश्च गम्भीरध्वनिभिः कृत्वा भुवः पृथिव्या उदरं मध्यं भरन् पूरयन् । अथ वा 'पृथिवीं प्रपूरयन्' इत्यपि पाठः ॥ કાર્ય હવે દિગવિજય કર્યા પછી સમુદ્રપર્યત પૃથ્વીના નાયક ભરત ચક્રવર્તી, સમુદ્રની ભરતીને કિનારાથી શૂરવીર સુભટોની સાથે પાછા ફર્યા. જેમ સમુદ્રના પાણીને પ્રવાહ, જલજંતુઓની સાથે ગંભીર સ્વનિપૂર્વક ભરતીના સ્થાનેથી પાછો ફરે છે તેમ ગજ, અશ્વ રથ અને પાયદળ આ ચતુરંગી સેનાના ચાલેવાથી અને સાહજિક ઉત્પન્ન થયેલા ગંભીર અવાજથી પૃથ્વીના મધ્યભાગને પૂરતા પાછા ફર્યા still स चक्रिणां भारतभूमिभामिनी-विशेषकाणां वृषभाङ्गजोऽग्रणीः । तदीयवप्तेव जिनावनीभुजा-मभूत्सुरश्रेणिनिषेवितक्रमः ॥११२।। स जगद्विख्यातो वृषभस्यादिदेवस्याङ्गजः सूनुर्भरतचक्री भारतं भरतक्षेत्रं तस्य भूमिः सेव भामिनी स्त्री तस्या विशेषकाणां तिलकानां भरत-सगर-मघवा-सनत्कुमार शान्ति-कुन्थु-अर-सुभूम-पद्म-हरिषेण-जय-ब्रह्मदत्ताभिधानानां द्वादशसंख्याकानां चक्रिणां मध्ये अग्रणीर्मुख्यः प्रथमो वा अभूद्वभूव । क इव तदीयवप्तेव । यथा तस्य भरतस्याय तदीयः वप्ता पिता युगादिदेवः । जिनानां सामान्यकेवलिनाम् । अथ वा ऋषभ-अजित. शंभव अभिनन्दन-सुमति-पद्मप्रभ-सुपाच-चन्द्रप्रभ सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल अनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पार्श्व-वर्धमाननाम्नां चतुर्विशतितीर्थकृतां मध्ये आदिमः अजायत । किभूतो भरतस्तत्पिता च । सुराणां पोडशसहस्राङ्गा रक्षकयक्षमुख्यानां चतुःषष्टिदेवेन्द्रादीनां च श्रेणिभिनिषेचितौ परिचितौ क्रमौ चरणों यस्य ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy