SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२४ हीरसौभाग्यम् [सर्ग २ श्लो० १०९-११० कैरिव । मागधैरिव । यथा मागधैर्वन्दिजनैश्चक्रवर्ती स्तूयते । पुनः कलिङ्गदेशजैर्भू पैः रुद्धनतः पूर्व रुद्धः पश्चान्नतः नमस्कृतः । 'पीतप्रतिवद्धवत्साम्' इति रघौ । 'पूर्व पीतः पश्चात्प्रतिवद्धो वत्सो यस्याः सा' इति तद्वत्तिश्च । “पूर्वकालैकजरत्पुराणनवकेवलाः समानाधिकरणेन' पते समानाधिकरणेन समस्यन्ते स तत्पुरुषः । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे प्रवृत्तिःसमानाधिकरणम् । पूर्वकालार्थस्तु अपरकालार्थेन । यथा मातानुलिप्तः। पूर्व स्नातः पश्चादनुलिप्तः। तथा 'तत्पुरुषःसमानाधिकरणः कर्मधारयः समानाभिधेयो यस्तत्पुरुषः स कर्मधारयाख्यः स्यात् । पीतश्चासौ प्रतिवद्धश्च । तथा स्नातश्चासावनुलि. प्तश्च । तथा रुद्धश्चासौ नतश्च । इत्येवोऽपि विग्रहस्तेन कर्मधारयगर्भितस्तत्पुरुषः समासः" इति प्रक्रियाकौमुद्याम् । किं कुर्वद्भिः । गजैः साधनभूतैर्हस्तिभिः कलिं संग्राम सृजद्भिः कुर्वद्भिः । करिव । अद्रिगणैः । यथा पर्वतप्रकः उपलैः प्रस्तरैः कृत्वा । युद्धं विदधद्भिः सद्भिरिन्द्रो रुध्यते प्रणम्यते च ॥ મગધ દેશના રાજાઓ બંદિજનો (સ્તુતિપાઠક) ની જેમ ઘણું હર્ષપૂર્વક ભરતચક્રવર્તીની સ્તુતિ કરતા હતા. અને કલિંગ દેશના રાજાઓ પ્રથમ પોતાની હસ્તિસેનાથી યુદ્ધ આપીને પરાભવ પામીને પછીથી ચક્રવર્તીને પ્રણામ કરતા હતા. જેમ પર્વતના સમૂહાએ પ્રથમ ઈકને અવરોધ કરતાં પરાજય પામીને પછીથી ઈદનું આધિપત્ય સ્વીકાર્યું હતું તેમ આ રાજાઓએ ભરતનું આધિપત્ય સ્વીકાર્યું હતું. ૧૦૯ चतुर्दिशामप्ययमर्णवावधी-निति प्रदेशान्ध्वजिनीभिरानशे । विभासिताभिः सितसिन्धुरश्रिया, यथाभ्रिकाभिः प्रसरत्पयो रः।११०॥ अथ भरतसार्वभौम इत्यमुना प्रकारेण ध्वजिनीभिः सेनाभिः कृत्वा चतस्रश्च पूर्वदक्षिणपश्चिमोत्तरलक्षणास्ता दिशश्च चतुर्दिशस्तासाम् । कथम् । अपि चतसृणामपि दिशामित्यर्थः । प्रदेशान् विभागान् आनशे व्याप्नोति स्म । किंभूतान्प्रदेशान् । अर्णवः समुद्रोऽवधिर्मर्यादा यस्य । अथवा अर्णवाश्चत्वारः समुद्राः । 'पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम्' इति रघुकाव्ये । तथा 'चतुःसमुद्रोपरिखे नृपाणामन्तःपुरे वासितकीतिदारे । दानं दया सूनृतमातिथेयी चतुष्टयीरक्षणसौविदल्लाः ॥' इति नैषधे । वासिता रक्षिताः कीर्तय एव दारा यत्र । तादृशे चतुरर्णवखातिके भूमीमण्डले एव नृपाणामन्तःपुरे दान, कृपा, सत्यवचनम् , अतिथिसक्रिया, पतञ्चतुष्टयी तदन्तःपुररक्षणार्थ सौविदल्लाः कञ्चुकिनः । एभिश्चतुर्भिःप्रकारैविना कीतिर्न तिष्ठति ।' इति तद्वत्तिः । अतश्चत्वारः समद्रा मर्यादा येषां ते । किंभूताभिर्वजिनीभिः । सितानां भद्रजातित्वेन शुभ्राणां सिन्धुराणां हस्तिनां श्रिया शोभया विभासिताभिः शोभिताभिः । क इव । प्रसरत्पयोधर इव । यथा श्वेतगजेन ऐरावणेन । 'प्रावृषेण्यं पयोवाहं विद्युदैरावताविव' इति रघौ । अथ वा अभ्रस्य भेघस्य मातङ्गो हस्ती अभ्रमातङ्गः । 'ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तः' इति हैमीवचनात् । विभासिताभिरभ्रिकाभिर्वदलैः कृत्वा गगनाङ्गणविस्तरन्मेघश्चतुदिकप्रदेशान्व्याप्नोति । अत्र यथा इवाथें ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy