SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सर्ग २ श्लो० १०७-१०९] हीरसौभाग्यम् १२३ तिरोहितात्मनः' इति वीरधवलनृपपुरोहितसोमेश्वरभट्टविनिर्मितवस्तुपालकीर्तिकौमुदीसोदरसुरथोत्सवकाव्ये । सैकते(तक्षितौ) जलोज्झितप्रदेशे व्रजति स्म जगाम । किंभूतः । सह स्मयेन गर्वेण वर्तते यः स सस्मयः । किं कुर्वन् । महौजसा सर्वेभ्यः सातिशायिना षट्रखण्डमण्डितभरतभूमीवलयोद्भवयावद्वाजिवारणवेसरसैरिभकरभवृषभयुगलमण्डलाकलितसबालवृद्धवयःस्थवशासखपुरुषपौरुषानाक्रमणीयेन पराक्रमेण अधिकप्रतापेन बा । ओजःशब्देन प्रतापोऽपि कथ्यते । यथा नैषधे-'तदोजसस्तद्यशसः स्थिताविमौ, वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदाविधिः कुण्डलनां विधोरपि ॥' इति । क्षितिरक्षिणो भूपालान् । 'निपीय यस्य क्षितिरक्षिणः कथाः' इत्यपि नैषधे । समुत्खाय राज्याद्भ्रंशयित्वा । पुनः पश्चात्परोपयन् । राज्यस्थाने वा स्थापयन् । कानिव । इक्षुडिम्भानिव । यथा कश्चित् कृषिकः इक्षुणामसिपत्रकाणां डिम्भान् प्ररोहान् उत्खाय उप्तस्थान कादुत्खन्यान्यस्मिन्स्थाने प्ररोपयति । 'पलालजालैः पिहितेचडिम्भः' इत्यपि नैषधे ॥ પખંડ પૃથ્વીના પતિ ભરતચક્રી, ગર્વ સહિત પૂર્વ સમુદ્રના કિનારે કિનારે દિગ્વિજય કરવા માટે જતા હતા. જેમ કોઈ ખેડુત શેલડીના છોડને ઉખેડીને ફરીથી અન્ય સ્થાનમાં રોપે તેમ ચક્રવતી પણ પોતાની તેજસ્વિતાથી શત્રુ રાજાઓને રાજ્યભ્રષ્ટ કરી પછીથી તેઓને અન્ય સ્થાને સ્થાપન કરતા જતા હતા. ૧૦ अजिह्मता सुमनृपैविले बिले-शयैरिवैतद्वसुधाधवे दधे । विनम्रता च ध्रियते स्म वेतसै, रये नवन्त्या इव भूरिवेतसैः ॥१०८॥ एतद्वसुधाधवे एतस्मिन् भरतभूपाले सुमनामा देशस्तन्नायकैः सुमराजैरजिह्मता सरलत्वं दधे धृतं तत्कालमेवागत्य प्रणेमे । कैरिव । यथा बिलेशयैः भुजङ्गमबिले भूगतरन्ध्र स्वनिवसनस्थाने प्रवेशसमये अजिह्मता अवक्रत्वं ध्रियते । च पुनः अस्मिन् नृपे भूरिवैतसैतस्वद्देशभूपालैविनम्रता विशेषेण नमनशीलत्वं ध्रियते स्म । कैरिव । वेतसैरिव । यथा स्रवन्त्या नद्या रये प्रवाहे मध्ये तटे वा उद्गमनशीलैर्वेतसनामवृक्षविशेषर्विनम्रता ध्रियते ॥ કાળું સર્પ જેમ બીલમાં પ્રવેશ કરતાં સરળ થઈ જાય છે તેમ “સુહ્મ' દેશના રાજાઓ સરળતાને સ્વીકારી ભરત પાસે તત્કાળ આવીને પ્રણામ કરતા હતા. તેમજ વેતસ” દેશના રાજાઓ પણ, નદીના પ્રવાહમાં જેમ વેતસવૃક્ષ નમ્ર બને છે (નમી જાય છે, તેમ ભરતરાજા પાસે નમ્રતાને ધારણ કરતા હતા. ૧૦૮ अवापितो गोचरतां स मागधै-रिव स्तवस्य प्रमदेन मागधैः । सृजभिरिन्द्रोऽद्रिगणैः कलिं गजै-रिवोपलै रुद्धनतः कलिङ्गजैः ॥१०९।। ___ स भरतचक्री मागधैर्मगधदेशोद्भवभूपैः प्रमदेन हर्षेण स्तवस्य स्तुतेर्गोचरतां विषयत्वम् । 'द्वीपाधिपान्नयनयोनय गोचरत्वम' इति नैषधे । अवापितः लम्भितः ।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy