________________
सर्ग २ श्लो० १०२-१०४] हीरसौभाग्यम्
१२१ न्मांसलैः पुरैरुन्नतैश्च । तादृशैर्मतङ्गजैः स्वसेनाकुञ्जरैः । किंभूतैर्मतङ्गजैः । ध्वजानां पताकानामर्थाद्गजसंवन्धिनीनां दण्डेषु शेखरीकृतानामुत्तंसतां प्रापितानामुपरिस्थितानां वा स्फुरतां दीप्यमानानां झगझगितिकान्तीनां काञ्चनकुम्भानां हेमकलशानां कान्तिज्योतिर्येषु तैः ॥
साथ સર્વભૂમિના ઈશ્વર ભરતચક્રવતીએ જાણે પૃથ્વી ઉપર વિદ્યુત સહિત મેઘને વિસ્તાર્યો ન હોય ! (શાથી ) અંજન પર્વત જેવા ઊંચા અને પુષ્ટ હાથીઓ ઉપરના ધ્વજદંડે, અને તેના ઉપર રહેલા સુવર્ણના કલશોની કાંતિથી સુશોભિત એવી ગજસેનાવડે પૃથ્વી જાણે વિજળીઓના ચમકારા સહિત મેઘાડંબરવાળી બની ગઈ ન હોય ? ૧૦રા
दशामवाप्स्यन्ति यदन्तिमामिमेऽ-स्मदाश्रया लक्षमिताः क्षितिक्षितः । विवर्णतेतीव दिगङ्गनागणे-मुंखे निषेवेऽस्य चमूरजोभरैः ॥१०३।।
दिगङ्गनागणैर्हरिद्वधूवृन्दैः कर्तृभिरस्य भरतचक्रिणश्चमूरजोभरैश्चतुरङ्गदलचलनोभूतभूरिधुलीपटलैर्मुखे वकत्रे । उत्प्रेक्ष्यते । इति हेतोः विवर्णता विच्छायता श्यामत्वं निषेवे मेजे । सेवितं धृतमित्यर्थः । इति किम् । यद्यस्मात्कारणादस्मदाश्रया वयमेवाश्रयो निवासस्थानं शरणं वा येषां तादृशा इमे लक्षमिताः शतसहस्रसंख्याकाः क्षितिक्षितो राजानः। अन्ते अर्थादायुषोऽवसाने भवामन्तिमां चरमां संग्रामादिना मरणलक्षणां दशामवस्थामवाप्स्यन्ति लप्स्यन्ते ॥
શ્લોકાર્ધ ભરત ચક્રવર્તિની ચતુરંગી સેનાના ચાલવાથી ઉડતી રજથી દિકકુમારીઓનાં મુખઉપર શ્યામતા છવાઈ ગઈ હતી. “અમારા આશ્રયે રહેલા લાખો રાજાઓ ભરતરાજા સાથેના સંગ્રામમાં મૃત્યુ પામશે” આ હેતુથી જ જાણે દિશાઓ ચામુખવાળી બની ગઈ ન હોય ! તેમ જણાતું હતું. ૧ળ્યા
चमूध्वनिः प्राग्गिरिकन्दरोदरे, प्रियोपगूढं सुखसुप्तर्किनरान् । इदंयशो गापयितुं गुहागत-प्रतिस्व३र्जागरयन्निवो तः ॥१०४।।
अस्य भरतचक्रिणश्चमूध्वनिगंजवाजिरथपत्तिचतुरङ्गकटककोलाहलशब्द उद्गतः प्रादुभूतः । उत्प्रेक्ष्यते । प्राग्गिरेः पूर्वाचलस्योदयाद्रेः कन्दराणां गुहानाम् उदरे मध्ये प्रियोपगूढं प्रियां किंनरीमुपगूह्यालिङ्गय । 'क्यबथै समासे णमुल्' इति प्रक्रियाकौमुद्याम् । चिरविरचितविविधनिधुवनविनोदखेदनिद्रालुतया क्रीडारसिकतया च स्वस्वसुखेन निरातङ्कतया सुप्तान किंनरान् प्रति इदयशो भरतचक्रिकीति गापयितु गानविषयां कारयितु गुहासु गह्वरेषु गतैः प्राप्तः प्रतिस्वनैः प्रतिशब्दैः कृत्वा जागरयन् प्रबोधयन्निव विनिद्रान् कुर्वन् उत्थापयन्निव ॥
શ્લોકાર્થ ભરત ચક્રવતિની ગજ, અશ્વ, રથ અને પાયદળ-આ ચતુરંગી સેનાના કાલાહલથી ઉત્પન્ન