________________
१२०
सौभाग्यम्
[ सर्ग २ श्लो० १००-१०२
कृष्णति' इति - प्रक्रियाकौमुद्याम् । तथा पतङ्गति । पुनस्तस्य भानोः प्रभाभरो ध्वान्तति अन्धकार इवाचरति । भासां श्यामीभूतत्वेन ॥
લેાકા
ભરતચક્રવતી જ્યારે દિગવિજય કરવા ગયા ત્યારે તેમની ચતુરંગી સેનાના ચાલવાથી ઉડેલા રજકણેાવડે આકાશ પૃથ્વી વ્યાસ બની ગયા હતા, સૂર્યના પ્રકાશનેા અવરોધ થવાથી દિવસ પણ રાત્રિની જેમ ભાસતા હતેા. સૂર્યં આગીયા જેવા અને પ્રકાશને સમૂહ, રજના સમૂહ વડે સામ थवाथी धार देवी लागते। हतेो. ॥१००॥
हरेर्महिष्यां हरिति प्रयातवान् य आदितः सादितगोत्रशात्रवः ।
पतिः सुराणामिव दानवारियु-ग्गजेन्द्र सिन्धूद्भववाजिराजितः ॥ १०१ ॥
यो भरतचक्रवर्ती आदितो दिग्विजयकारणव्यतिकरे प्रथमतो हरेरिन्द्रस्य महिष्यां पत्न्यां हरिति दिशि । प्राच्यामित्यर्थः । 'निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित् ' इति नैषधे । प्रयातवान् गतः । क इव । सुराणां पतिरिव । यथा शक्रः पूर्वा दिशं प्रति प्रयाति, तत्पतित्वात् । किंभूतो यः शक्रश्च । सादितं हतं गोत्रं वंशो येषां तादृशाः शात्रवा वैरिणो यस्य । यद्वा सादिता निर्मूलमुच्छेदिताः गोत्रसहिताः सवंशाः शात्रवा रिपवो येन । पक्षे - सादिता गोत्राः पर्वता एव शात्रवा येन । पुनः किंभूतः । दानवारिभिर्मदजलैयुञ्जन्ति योगं प्राप्नुवन्तीति दानवारियुजो निर्यद्बहुलमदसलिला ये गजेन्द्रा भद्रजातीयगन्धोपलक्षिताः सिन्धुराः (तैः) सिन्धुदेशे उद्भव उत्पत्तिर्येषां तादृशैर्वाजिभिरश्वै[श्च] राजितः शोभितः । पक्षे- दानवानां दैत्यानामरिभिवैरिभिर्युनक्तीति । देवयुक्त इत्यर्थः । तथा गजेन्द्र ऐरावणः सिन्धूद्भावः समुद्रोत्पन्न उच्चैःश्रवा अश्वः तेन च राजितः । स सिन्धुज शीतमहः सहोदरं हसन्तमुच्चैःश्रवसः श्रियं हयम्' इति नैषधे ॥ લેાકા
દિવિજય કરવામાટે નીકળેલા ભરતચક્રવતીએ ઈંદ્રની જેમ પ્રથમ પૂર્વ દિશા તરફ પ્રયાણ કર્યું, ચક્રવર્તી: વંશસહિત શત્રુને નિર્મૂળ ઉચ્છેદ કરનાર. ઈન્દ્રઃ પર્વતારૂપી શત્રુઓને ઉચ્છેદ કરનાર, ચક્રવર્તી મજલવડે શેાલતા મદ્રેન્મત્ત હાથીએ અને સિંધુ દેશમાં ઉત્પન્ન થએલા અશ્વરત્નેાવડે શાભતા. કેંદ્ર; સમુદ્રમાંથી ઉત્પન્ન થયેલા ઐરાવણુ હાથી અને ઉચ્ચ શ્રવસ અશ્વવડે શાભતા. ઇન્દ્ર જેમ પેાતાને આધીન પૂર્વદિશામાં જાય તેમ ભરતચક્રવર્તીએ પણ પ્રથમ પૂર્વાિમાં પ્રયાણ કર્યું હતું.
॥१०१॥
स सार्वभौमो ध्वजदण्डशेखरी - कृतस्फुरत्काञ्चनकुम्भकान्तिभिः । मतङ्गजैरञ्जनशैलमांसलैः, क्षितौ तनोतीव सविद्युदम्बुदम् ॥ १०२ ||
सर्वस्या भूमेरीश्वरः सार्वभौमश्चक्रवर्ती स भरतः । उत्प्रेक्ष्यते । सविद्युदम्बुदं तडिकलितजलधरं क्षितौ पृथिव्यां तनोतीव करोतीच । कैः । अञ्जननामा शैलः पर्वतः तद्व