SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११८ __ हीरसौभाग्यम् सर्ग २ श्लो० ९७-९८ શ્લેકાર્થ સામાન્ય કેવલીઓની મધ્યમાં સૂર્યસમાન એવા ભગવાન શ્રી ઋષભદેવને સો પુત્રો હતા. જેમ વજના સે આરા, કમલનાં સો પાંદડાં, તેમજ કાર્તિક શ્રેષ્ઠિના ભાવમાં શ્રાવકની અગીઆર પ્રતિમા પૈકીની પાંચમી પ્રતિમાને સો વાર વહન કરનાર એવા ઈદની સે પ્રતિમા અથવા સ યો તેમ આદિનાથ ભગવાનને સે પુત્રો હતા. l૯૬ll जिनावनीन्दोः किल धर्मकर्मणो-र्व्यवस्थयाऽस्मादुदभावि भूतले । रथाङ्गपाथोरुहयोर्मुदोदिता-रविन्दिनीवल्लभमण्डलादिव ॥१७॥ किलेति श्रूयते निश्चितं वा । भूतले भरतक्षेत्रक्षोणीमण्डले अस्माजिनावनीन्दोरेतस्मादृषभतीर्थकराद्धर्मः सुकृतं कर्म कृषिवाणिज्यादि तयोर्व्यवस्थया विवेकेन उदभावि प्रकटीभूतम् । कस्मात्कयेव । उदितादभ्युदयं प्राप्तादरविन्दिनीवल्लभस्य पद्मिनीपतेर्भानोमण्डलाद् बिम्बात् रथाङ्गश्चक्रवाकः पाथोरुहं कमलम् । जातिवाचित्वादेकवचनम् । तयोमुदा हर्षेणोदभूयते । यतो रथाङ्गानां प्रियाभिर्वियोगः कमलानां संकोचश्च रात्रौ भवेदतो दिवसे हर्षः । मुदेति कर्तृपदं तृतीयान्तम् ॥ કલેકાર્થ ખરેખર આ ભરતક્ષેત્રમાં સામાન્ય કેવલજ્ઞાનીઓમાં ચંદ્ર સમાન એવા શ્રી ઋષભદેવ ભગવાને, જેમ સૂર્યના ઉદયથી ચક્રવાક અને કમલ ઉલ્લસિત બને છે તેમ ધર્મકર્મની વ્યવસ્થા ઉલ્લસિત કરી અર્થાત પ્રગટ કરી. ||ળી. वभूव नाभेयविभुः स आदिमः, क्षितौ समग्रावनिभामिनीभुजाम् । पुलोमजाप्राणपतेर्मतङ्गजो, महामृगाणामिव दानशालिनाम् ॥ ९८ ।। हे नाथीदेवि, क्षितौ पृथिव्यां स पूर्वोक्तस्वरूपो नाभेय एव विभुः स्वामी ऋषभदेवः। समग्रा ये अवनि भामिनी भञ्जन्ति इति अवनिभामिनीभजः । 'वसमतीयवती भुजङ्गः' तथा 'यामिनीकामिनीपतिः' इत्यादि काव्यकल्पलतायाम् । राजानस्तेषां मध्ये आदिमः प्रथमः । अस्यामवसर्पिण्यां प्रथम श्रीऋषभदेवस्यैव राज्यस्य जातत्वात् । शक्रेण प्रथमम् ऋषभदेवस्य राज्याभिषेकः कृत इति । क इव । मतङ्गज इव । यथा पुलोमजाया इन्द्राण्याः। 'हृष्यन्मुहुर्लोम पुलोमजायाः' इति नैषधे । प्राणपतिर्भर्ता शक्रस्तस्य गज ऐरावणः स महामृगाणां हस्तिनाम् आदिमो जज्ञे । तथा च चम्पूकथायाम्-'नारायणनाभ्यम्भोरुहकुहरकुटीमधिशयानस्य वेदविद्यां निगदतो भगवतः पितामहस्य बृहद्रथान्तरविकीर्णाभासनामानि सामानि गायतः सामश्लोकरसनिष्यन्दादुदपद्यन्त ऐरावतसुप्रतीकप्रभृतयोऽष्टौ दिग्गजेन्द्राः । तेभ्योऽभवन् भद्रमन्द्रमृगसंकीर्णजातयो गिरिचरनदीचरोभयचारिणः करिणः प्रसिद्ध चैतत्सामजा गजा इति । केचित्पुनरन्यथा कथयन्ति । किल सक. लसुरासुरकरपरिघपरिवर्त्यमानमन्दरमन्थानमथितदुग्धतम्भोधेरजनि जनितजगद्विस्मयोल्ल
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy