________________
सर्ग २ श्लो० ९५-९६ ]
सौभाग्यम्
पुराभवन्नाभिमहीहिमद्युते - स्तनूभवः श्रीवृषभध्वजो जिनः ।
इवात्मभू राजसभावभासितः, ससर्ज यो विष्टप सृष्टिमात्मना ॥ ९५||
११७
हे स्वामिनि, पुरा पूर्वं युगस्यादौ सर्वव्यवस्थाप्रादुर्भवनव्यतिकरे नवाशीतिपक्षाधिकयशीतिपूर्वलक्षावशेषे तृतीयारकपर्यन्ते नाभिर्नामा मह्यां भूमौ हिमधुतिश्चन्द्रस्तस्य । 'इदं तमुर्वीत शीतलद्युतिम्' इति नैषधे । तनूभवः पुत्रः श्रिया राज्यतीर्थ लक्ष्म्या युक्तो वृषभः ककुद्मान् कुरुदेशे ध्वजश्चिह्न यस्य तादृक् जिनस्तीर्थकरः एतावता ऋभजिनोऽभवद्बभूव । स कः । यत्तदोः संवन्धात् यो राज्ञां राज्यन्यानामिक्ष्वाकुवंशोद्भवानां सभया समूहेन । 'सदेवमणुआसुराए परिसाए समणुगम्यमाणमग्गो' इति कल्पसूत्रे 'पर्पदा समू हेन' इति तद्वृत्तिः । 'सुरसमाजसमाक्रमणोचितः' । समाजः समूह इति रघुवंशे । 'उडपरिषदः किं नार्हन्ती निशः किमनौचिती' । इति नैषधे । नक्षत्रसमूहस्येति तद्वृत्तिः । ततः सभावाचकाः शब्दाः समूहे ऽपि दृश्यन्ते । अथवा सभायां परिषदि अवभासितः शोभित उपविष्टः । तादृशः सन्नात्मना स्वेन विष्टपस्य विश्वस्य सृष्टिं सर्वव्यवहारशिल्पकलाराज्यस्थितिप्रजापालनादिसर्ग ससर्ज करोति स्म । क इव । आत्मभूरिव । यथा ब्रह्मा राजसभावेन रजोगुणस्वभावेन भासितः सन् जगत्सर्ग चक्रे ॥
શ્લેાકા
હે સ્વામિની, પૂર્વે યુગની આદિમાં જેના ત્યાશીલાખ પૂર્વ તે નેવ્યાશી પખવાડીયા બાકી છે, તેવા ત્રીજા આરાના અંતે પૃથ્વી ઉપર ચંદ્ર સમાન નાભિરાજાના પુત્ર રાજ્યલક્ષ્મી અને તી કરલક્ષ્મીથી સુરોાલિત તેમજ વૃષભ (બળદ) ના લંછનથી યુકત એવા શ્રી ઋષભજિનેશ્વર થયા. જેએ દેવેન્દ્ર, અસુરેન્દ્ર અને નરેન્દ્રોની સભાના શણગાર રૂપ હતા, તેમજ જેમણે વાણિજ્ય, રાજ્યનીતિ, પ્રજાપાલન આદિ સૃષ્ટિનું સર્જન કર્યું હતુ. જેમ રાજસભાવથી બ્રહ્માએ સૃષ્ટિની રચના કરી હતી, તેમ ભગવાન શ્રી ઋષભજિનેશ્વરે પણ જગતની તમામ વ્યવસ્થાને (આચાર-કરરૂપે) દર્શાવી હતી. II પ॥
अनुष्य नाभेयजिनावनीनभो - मणेरजायन्त शतं तनूरुहाः ।
परिवात्राः क्रतवः शतक्रतो - वि च्छ्दानीव पुनः पयोरुहः ||९६ ||
अमुष्य एतस्य नाभेरपत्यं नाभेयो वृषभः स एव जिनानां सामान्यकेवलिनां मध्ये अवन्या भूमेरतितेजस्त्वेन नभोमणेः सूर्यस्य । अथवा - अवनीनभोमणी राजा । 'मध्यंदिनावधिविधेर्वसुधाविवस्वान्' इति नैषधे । तथा 'पाण्डोरवनिमार्तण्डस्य' इति पाण्डवचरित्रे | जिनराजस्येत्यर्थः । शतं शतसंख्याकास्तनूरुहाः । 'तनूरुहस्तु पुत्रे गरुति लोम्नि वा ' इत्यनेकार्थः । अजायन्त जाताः । कस्येव । पवेरिव । यथा वज्रस्य शतमस्त्राः कोटयो भवन्ति स्म । पुनः कस्येव । शतक्रतोरिव यथा इन्द्रस्य शतमिताः क्रतवः प्रतिमाः यज्ञा वा आसन् । 'इन्द्रेण कार्तिकश्रेष्ठिभवे पञ्चमी प्रतिमा शतवार व्यूढा' इति कल्प करणावल्याम् । पुनः कस्येव । पयोरुद्द इवात्र षष्ठी । यथा कमलस्य शत छदानि पत्राणि जायन्ते ॥