SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् सर्ग २ श्लो० ८७-८९ गांगमनपरिपाट्या शयनीयमन्दिरं स्वशय्याग्रह व्यभषयदलंकरोति स्म । किंभूतम् । संक्रन्दनः शक्रस्तस्य सद्म मन्दिरं तत्संबन्धि वा वैजयन्तप्रासादस्तद्वत्सुन्दरं रमणीयमिति गर्भितोपमा । केव । अरविन्ददृगिव । यथा किंपुरुषाणां किंनराणां प्रभोरिन्द्रिस्य प्रकृष्टकिंनरस्य कस्यचिद्वा पत्नी मन्दरस्य मेरोरिन्द्रकीलशैलस्य वा कन्दराया गुहाया उदरं मध्यं विभूषयति । किनराणामवस्थानं मन्दरकन्दरासु वर्ण्यते । यथा चम्पूकथायाम्'मन्दं मन्दरकन्दरासु शयितानुत्थापयन् किन्नरान्' इति ॥ इति गजस्वप्नविचारकथनस्वशयनसझगमनम् ॥ શ્લોકાઈ ત્યારપછી ખુશ થયેલી નાથીદેવીએ અનુક્રમે ઈદના વૈજયંત પ્રાસાદની જેમ રમણીય એવા પિતાના શયનખંડને શોભાવ્યો અર્થાત શયનગૃહમાં આવી. જેમ કિન્નરેના સ્વામી જિંપુરુષની પત્ની ઈદ્રના ક્રીડાપર્વત મેરુની ગુફાના મધ્યભાગને શોભાવે તેમનાથીદેવી શયનખંડને શોભાવતી હતી. ઘટના सुखं स्वकीये सदने निषेदुषी, मुदं महास्वप्नजुपं प्रपेदुषी । इदं कलाकेलिमरालमानसे, व्यचिन्तयत् सा विदुषीव मानसे ॥८८।। सा नाथी मानसे स्वचित्ते इदं वक्ष्यमाणं व्यचिन्तयद् विमृशति स्म । केव । विदुषीव । यथा पण्डिता हृदये शास्त्रार्थादि विचिन्तयति । किंभूते मानसे। कलाकेलिः कामः स एव मरालो राजहंसस्तस्य क्रीडार्थ वासार्थ वा । 'मराला मानसौकाः' इति हमविचनात् मानसनाम्नि सरसि । सा किंभूता। सुखं निराधिव्याधिकं यथा स्यात्तथा स्वकीये निजे शयनीयसदने मन्दिरे निषेदुषी उपविष्टा । पुनः किंभूता । महानद्भुत आश्चर्यकारी यः स्वप्नः स्वापावस्थायामेरावणवारणविलोकनं तं जुषते सेवते तादृशी महास्वप्नसंजातां मुदं प्रीतिमानन्द प्रपेदुषी॥ साथ પિતાના શયનગૃહમાં સુખપૂર્વક રહેલી નાથીદેવી, મહાન આશ્ચર્યકારી એવા ગજસ્વમને જોવાથી અત્યંત હર્ષને પામેલી જાણે કામદેવરૂપ હસને ક્રીડા માટેનું માનસરોવર ન હોય ? તેવા પ્રકારના નિર્મલ ચિત્તમાં શાસ્ત્રાર્થની વિચારણા કરતી પંડિતાની જેમ આ પ્રકારે વિચારી રહી હતી. 1८ पुनः सृजन्त्यां मयि मुद्रणां दृशोः, परैरपस्वप्नविजृम्भितैरसौ । निहन्यतां मा सहजैरिव ग्रहै-त्रिकोणकेन्द्रोपगतः शुभग्रहः।।८९॥ पुनद्वितीयवारं दृशोर्लोचनयोर्मुद्रणां निमीलनम् । निद्रामित्यर्थः । सृजन्त्यां कुर्वत्यां मयि परैरन्यैरपस्वप्मविजृम्भितैर्दुष्टस्वप्नदर्शनविलसितैरसौ गजदर्शनलक्षणः शुभःस्वप्नो मा निहन्यतां मा व्यर्थीक्रियताम् । क इव । शुभग्रह इव । यथा असहजैः शत्रुभूतैौ ममन्दादिभिम्र हैः खेटेर्नवपञ्चमं त्रिकोणं प्रथमचतुःसप्तमदशमाख्यानि केन्द्राणि तेषु भवनेषु गतः प्राप्तः शुभो गुरुवुधादिः प्रशस्यग्रहो निहन्यते निर्बलीक्रियते ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy