________________
सर्ग २ श्लो० ८५-८७] हीरसौभाग्यम् ।
११३ धवः सुधाधामसगोत्रवक्त्रये-त्यवादि बद्धाजलिपाणिपाया । वरे सुरेन्दोरिव कान्त तावके, वचःप्रपञ्चेऽव्यभिचारिताऽस्तु मे ॥८५॥
सुधाधानोऽमृतकिरणस्य चन्द्रस्य सगोत्रं स्वजनो वान्धवः । तुल्यमिति यावत् । वकुत्रं मुखं यस्यास्तया चन्द्रवदनया धवः स्वभर्ता इत्यमुना प्रकारेण अवादि भाषितः । तया किंभूतया। बद्धो रचितोऽजलियोजनं याभ्यां तादृशौ पाणिपदमौ करकमलौ यस्याः। कमल(?)शब्दः पुंक्लीवलिङ्गयोः । इति किम् । हे कान्त, तावके त्वदीये वचःप्रपञ्चे वचनविस्तारे वाग्वैभवे वा मे मम व्यभिचरति मृषा भवतीत्येवंशीलं व्यभिचारि न व्यभिचारि अव्यभिचारि तस्य भावः अव्यभिचारिता सत्यता अस्तु भवतात् । कस्मिन्निव | वरे इव यथा सुरेन्दोरिन्द्रस्य प्रधानदेवस्य वा वरे अभीष्टवाकप्रदाने अव्यभिचारिता भवेत् ।
शोआर्थ ચંદ્રમુખી નાથીદેવીએ હસ્તકમલની અંજલી કરીને પોતાના સ્વામીન આ પ્રમાણે કહ્યું, “હું સ્વામિ, આપના વચનનો વિસ્તાર મારા માટે ઈદ્રના અથવા ઉત્તમ દેવના વાયની જેમ મિયા ના થાઓ, અર્થાત સત્ય થાઓ.” u૮પા
मिथः प्रथाभिर्वचसां वचस्विनौ, कियच्चिरं तस्थतुरत्र दम्पती । वसन्तफुल्लत्सहकारकानने, पिकाविवोंदीरितपञ्चमस्वनौ ॥८६॥
अत्र इभ्यशय्यागृहे वचस्विनौ विशिष्टवाग्विलासशालिनौ दम्पती स्त्रीभर्तारौ मिथः परस्परं वचसां निजनिजवचनानां प्रथाभिविस्तारैः। वातोविनोदरित्यर्थः । कियच्चिरं कियन्ती वेलां यावत्तस्थतुः स्थितौ । काविव । पिकाविव । यथा वसन्तेन मधुमासेन फुल्लतां विकसताम् । मञ्जरीपिञ्जरीभवतामित्यर्थः । सहकाराणाम् आम्राणां कानने उदीरितः प्रकटीकृतः पञ्चमनाम्नो रागस्य स्खनो ध्वनिर्याभ्यां तौ । पिकी च पिकचपिको । 'पुमान् स्त्रिया तल्लक्षणश्चेदेव विशेषः । स्त्रिया सहोक्तौ पुमान् शिष्यते न स्त्री, स्त्रीपुंसलक्षणश्चेदेव विशेषः । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ तल्लक्षणः किम् । कुक्कुटमयूर्यो' इति प्रक्रियाकौमुद्याम् । तेन पिकीशब्दस्य लोपे पिकाविति । किंचिञ्चिरं तिष्ठतः।
શ્લેકાર્થ શ્રેણીના શયનખંડમાં વિશિષ્ટ પ્રકારના વચન વિલાસમાં નિપુણ એવાં તે દંપતી કેટલોક સમય પરસ્પર વિવિધ પ્રકારનો વાર્તાવિદ કરતાં રહ્યાં. વસંતઋતુમાં આમ્રવનને વિષે પંચમસ્વરે ગાતા કિલોની જેમ મધુર સ્વરે તેઓ આલાપ સંલાપ કરતા હતા. ll૮૬
मुदाऽथ नाथी शयनीयमन्दिरं, क्रमेण संक्रन्दनसद्मसुन्दरम् ।
व्यभूषयत्किंपुरुषप्रमोरिवा-रविन्ददृमन्दिरकन्दरोदरम् । ८७॥ अथ स्वप्नार्थकथनतत्तद्वार्तानन्तरं नाथी मुदा प्रमोदेन क्रमेण भर्तृ विसर्जनगृहमा