SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १११ सर्ग २ श्लो० ८०-८२] हीरसौभाग्यम् निगद्यते स्म व्यवहारिणा क्षण, विमृश्य सा तेन मुकेशमानिनी । रथाङ्गनाम्नेव रथाङ्गवान्धवो-दये रथाङ्गी सविधे समीयुषी ॥८१॥ (युग्मस् ) तेन व्यवहारिणा कुंरासाधुना क्षण स्वल्पकालं विमृश्य विचार्य स्ववुद्धया सुशोभनाः केशाः कुन्तला यस्याः सासुकेशी। सुकेशीस्वां मन्यते इति सुकेशमानिनी। क्यामानिनोश्च' एतयोः परयोः पुंवद्भावः स्यात् । सा नाथी निगद्यते स्म भाषिता । केनेव रथाङ्गनाम्नेव । यथा रथाङ्गबान्धवस्य भानोरुदये सविधे आत्मनः पार्था समीयुषी समागता रथाङ्गीचक्रवाकी रथाङ्गेन चक्रवाकेन वाद्यते । तेन किं कुर्वता । चञ्चुराः प्रधाना मौक्तिकावलीहारानिव उपचिन्वता पुष्णता। किंभूताः । भुजान्तरस्य हृदयस्याभोगो विस्तारस्तत्र विलसन्तीत्येवंशीलास्ताः । तथा [स्मितश्रिया ईषद्धसितलक्ष्म्या ।] किंभूतया [स्मितश्रिया ।] द्विजावलीचन्द्रिकया दन्तपतिज्योत्स्नया । 'दशनचन्द्रिकया व्यवभासितम्' इति रघौ । अनुविद्धया व्याप्तया । पुनः किंभूतया । श्वेतितो धवलीकृत सृक्कदेशः ओष्ठप्रान्तदेशो यया । 'दन्तवस्त्र च तत्प्रान्तौ सृक्कणी' इति हैम्याम् ॥युग्मम् ॥ પ્લેકાર્થ હૃદય ઉપર સ્કુરાયમાન શ્રેષ્ઠ મુક્તાહારની પંક્તિથી સુશોભિત કરાશાહે ક્ષણવાર વિચાર કરીને, દંતપંક્તિની કાન્તિથી વ્યાપ્ત તેમજ જેનાથી સફેદ થયે છે ઓછને પ્રાંતભાગ તેવા પ્રકારના હાસ્યની શેભાથી સુંદર કેશવાળી પિતાની પ્રિયાને, સૂર્યોદય થતાં પોતાની પાસે આવેલી ચક્રવાકીને જેમ ચક્રવાક બોલાવે તેમ બોલાવી. ૮૦૮૧ अनेकपस्वप्ननिरीक्षणादवा-प्स्यते तदन्वर्थसुतोऽचिरात्त्वया । महोदयः केवललम्भतो मुनी-समज्ययेवाम्बुजमजुलोचने ॥८२॥ हे अम्बुजं कमलं तद्वन्मञ्जुनी मनोज्ञे लोचने नयने यस्यास्तस्याः संबोधनमम्बुजमञ्जुलोचने हे प्रिये !, अनेकपस्य गजस्य स्वप्नस्य निरीक्षणाद्दर्शनात् अचिरात्स्तोककालादेव तस्यानेकपस्यान्वर्थोऽनेकान् बहून् पातिरक्षति स्वामितया संसाराद्धर्मोपदेशमहाव्रताणुव्रतादिप्रदानेन तारयतीत्यनुगतार्थो यस्य तादृशः सुतः पुत्रस्त्वया भवत्या अवाप्स्यते । कयेव । मुनीसमज्ययेव । यथा मुनीनां साधूनाम् । मुनीशब्दोऽप्यस्ति । यथा लिङ्गानुशासने-'यानीमुन्यौ स्वातिगब्यूतिवस्त्यः'इति । भावचारित्रं विना केवलज्ञानं न स्यादिति मुनीपदोपादानम् । समज्यया संभया अर्थाद् द्वन्द्वेन केवलस्य एकाङ्गाकारस्य पञ्चमज्ञानस्य आसादनात्तप्तेमहोदयो मोक्षोऽवाप्यते । य उदय आगतः कदापि न याति स एव महोदयः ॥ १ अय पाठ उपचयने हेतुतया योज्यः ।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy