________________
हीरसौभाग्यम्
[सर्ग २ श्लो० ७८-८०
वा स्यात् । इति लिङ्गानुशासने । इदं किम् । यदेष गजस्वप्न आवयोर्दम्पत्योः किं फलं प्रदास्यति । किंवत् । स्वपाणिना निजहस्तेन सिक्तो जलेनाभिषिक्तोऽत एव स्मयमानः शाखाप्रशाखापत्रपल्लवपुष्पोपचितो जायमानः शाखिवद् वृक्ष इव ॥
શ્લેકાર્થ પૃથ્વીની અપ્સરા એવી કુરશાહની પત્ની નાથીદેવી “આં ગજ સ્વપ્ન, પિતાના હાથે પાછું વડે સિંચાયેલો વિકસ્વર વૃક્ષની જેમ આપણને શું ફલ આપશે?” આ પ્રમાણે પોતાના પતિને આનંદપૂર્વક કહીને વિરામ પામી. ૭૮
तदाननेन्दोरमृतोमिमालिनो, गिरं सुधाया भगिनीमिवोद्गताम् । निपीय कर्णैः पुटकैरिवान्तरा, स (वि)कूणिताक्षः परमां मुदं दधौ ॥७९॥
स महेभ्यः कुंराख्योऽन्तरा हृदयमध्ये परमामुत्कृष्टां मुदं प्रीतिमानन्दं दधौ धारयति स्म । किं कृत्वा । निपीय पीत्वा । सादरं श्रत्वेत्यर्थः । काम । गिरं वाणीम । के कर्णैः श्रवणैः । तादृक् शुभस्वप्नश्रवणोत्कण्ठया वारंवारप्रश्ने मुहुर्मुहुः कर्णदानाद् वहुत्वम् । उत्प्रेक्ष्यते । पुटकैरिव । अन्योऽपि रसः पुटकैः पीयते । किंभूतः सः । विकूणिते निमीलिते अक्षिणी दृशौ येन । 'उत्कल्लोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धु, यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबन्ति' इति चम्पूकथायाम् । कि भूतां गिरम् । उद्गतां प्रकटीभूताम् । कस्मात् । तदाननेन्दो थीवदनचन्द्रात् । उत्प्रेक्ष्यते । सुधाया अमृतस्य भगिनी जामिमिव । भगिनी किंभूताम् । अमृतोमिमालिनः सुधासमुद्रात् प्रादुर्भूताम् । लक्ष्मीकौस्तुभपारिजातसहजः, सूनुः सुधाम्भोनिधेदेवेन प्रणयप्रसारविधिना मूर्धा धृतः शंभुना । अद्याप्युज्झति नैव दैवविहितं क्षीणं क्षपावल्लभ, केनान्येन विलङ्घयते विधिगतिः पाषाणरेखासखी ॥' इति भोजप्रवन्धे क्षीरसमुद्रस्य सुधासमुद्रत्वं प्रतिपादितमस्ति । तथान्यत्रापि काव्यकल्पलताग्रन्थादिष्वपि विद्यते च । अथ वा वदनेन्दोः कथंभूतात् । अमृतोमिमालिनः सुधासमुद्रात् । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदतां विधौ' इति नैषधे । अथवा 'तदाननेन्दोरमृताब्धिजन्मनः' इति पाठः । सुधायाः किंभूतायाः । तदाननेन्दोर्वा किंभूतात् । अमृतान्धिः समुद्रस्तस्माजन्मोत्पत्तिर्यस्या यस्य वा ॥
શ્લેકાર્થ ક્ષીરસમુદ્રમાંથી ઉત્પન્ન થયેલી જાણે સુધાની સહોદરી ન હોય તેવી નાથીદેવીના મુખરૂપી ચંદ્રમાંથી પ્રગટ થયેલી વાણીરૂપી સુધા (અમૃત)નું વિકસિત નેત્રવાળા કુરાશાહ કર્ણપટથી પાન કરીને હૃદયમાં અત્યંત હર્ષ પામ્યા. ૭
द्विजावलीचन्द्रिकयानुविद्धया, स्मितश्रिया श्वेतितसक्कदेशया । भुजान्तराभोगविलासिनीरिवो-पचिन्वता चन्चुरमौक्तिकावलीः ॥८॥