SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सर्ग २ श्लो० ७१-७३] हीरसौभाग्यम् શ્લેકાર્થ સ્વપ્નમાં હાથીને જોઈને નાથીદેવીનાં નયનકમલ વિકસિત થયાં. અર્થાત નિદ્રાને ત્યાગ કર્યો. ઉલ્યાચલ ઉપર સૂર્યના ઉદયને જોઈને જેમ પવિની (કમલિની) વિકસિત બને છે, તેમનાથીદેવી પણ નિદ્રાનો ત્યાગ કરીને સ્વસ્થ બની, ૭ના सुखं शयाना निशि निद्रयाङ्गना, निभाल्य तं स्वप्नमवाप संमदम् । यथा परब्रह्म समीररुन्ध(रोध)नै-निवद्धपद्मासनयोगिमण्डली ॥७२॥ अङ्गना नाथी समदं हर्षमवाप लेभे । किं कृत्वा । निभाल्य दृष्ट्वा । कम् । तं पूर्वव्यावर्णितस्वरूपं हस्तिस्वप्तम् । किंभूता नाथी । निशि रात्रौ निद्या सुख सातेन शयाना स्वपन्ती। सुप्ता सतीत्यर्थः । केय । निबद्धति । यथा निवद्धं रचित पद्मासनमासनविशेषो यस्तादृशानां योगिनां योगमार्गसाधकानांमण्डली श्रेणी समीराणां प्राणापानादीनां पवनानां रुन्ध(रोध)नै रोधैः परब्रह्म परमात्मानमालोक्य परमं संमदं प्राप्नोति। योगिनो हि पामासनेनोपविश्य वातरुन्ध(रोध)नपूर्वकमेकताना योगध्यान कुर्वन्तः परमात्मानमात्मनि हृदयकमलकर्णिकायां वीक्ष्य । "त्वां योगिनो जिन !सदा परमात्मरूप-मन्वेषयन्ति हृदयाम्बुजकोशदेशे" इति कल्याणमन्दिरस्तवेऽपि । 'परमानन्दभाजः सन्तो ध्यानाद्विरमन्ते' इत्येष व्यतिकरः कुमारसंभवे ॥ કાઈ રાત્રિમાં નિદ્રા વડે સુખપૂર્વક સૂતેલી નાથીદેવી તે હસ્તિના સ્વપ્નને જોઈને અત્યંત હર્ષને પામી. જેમ પવાસનસ્થ યોગીમંડળી, પ્રાણાપાન આદિ વાયુના રોધપૂર્વક યોગાભ્યાસ કરતા હૃદયકમલમાં પરબ્રહ્મ (પરમાત્મા)ને જોઈને અત્યંત આનંદ પામે તેમનાથીદેવી પણ પરમ આનંદને પામી. છરા गभीरिमाणं दधतः सपल्लव-स्मितप्रसूनव्रजराजितान्तरात् । स्वहंसतूलीशयनोदरादसौ, क्षणादुदस्थात् करिणीव सैकतात् ॥७३॥ असौ नाथी स्वस्य हंसतूलीनाम्नः शयनस्य । यद्वा आत्मनो हंसानां पक्षरोमभिर्भूता तूली । अथवा हंसनामलक्षणकेन पट्टशाटकेन। 'सयमेवाभरणालंकार मुयई' इति कल्पसूत्रे । 'भगवान् खमेवाभरणालंकारान् मुञ्चति । तान्याभरणानि कुलमहत्चरिका हंसलक्षणेन पटशाटकेन प्रतीच्छति। तथा 'पञ्चमुट्ठिय लोय करेइ।' शक्रोऽपि हंसलक्षणेन पटशाटकेन केशान् प्रतीच्छय क्षीरसमुद्रे वाहयति । इति कल्पवृत्तिः। निमिता तूली प्रस्तरणोपकरणविशेषः । लोके 'तुलाइ' इति प्रसिद्धा । तत्संयुक्तस्य शयनस्य वा शय्याया उदरान्मध्यात्क्षणात्तत्कालमुदस्थादुत्थिता । किं कुर्वतः स्वहसेत्यादि । दधतो धारयतः । कम् । गभीरिमाण मध्ये निम्नतां 'मज्झनिन्ने गम्भीरे' इति कल्पादिमसूत्रवचनात् । पुनःकिभूतात्। सपल्लवाः किसलयकलिताः स्मिता विकसिता ये प्रसूनव्रजाः कुसुमसमूहास्तै राजितं शोभितमन्तर मध्य यस्य । केव । करिणीव । यथा हस्तिनी उभयपक्षपरावर्तनादिना।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy