________________
हीरसौभाग्यम् सर्ग २ श्लो० ६९-७१ गजं किं कुर्वन्तम् । मदस्योन्मत्तताया उदयादाविर्भावात्स्वकर निजशुण्डादण्डमुच्चैसर्व सृजन्तं कुर्वन्तम् । उत्प्रेक्ष्यते-स्वर्जितैरात्मगर्जारावैः सार्ध स्पर्धितयाऽहंसर्पित्वेन अतिकोपतोऽधिकक्रोधात् पयोमुचां मेघानां चमूमनीकम् । वृन्दमित्यर्थः । विगायन्तमवगणयन्तमिव । 'नवाम्बुदानीकमुहूर्तलाञ्छने' इति रघुवंशे । अनीकवचमूः । किंभूतैर्गजितैः । कुलाद्रिषु मन्दरप्रमुखकुलशैलेषु सान्द्रेण बहुलेन प्रतिनादेन प्रतिशब्देन मेदुरैः पुष्टैः ॥
શ્લોકાથ મદોન્મત્ત હોવાથી પોતાની સૂંઢને ઉંચી કરતો તે હાથી, મેરુ આદિ પર્વતમાં પડેલા ગાઢ પડધાઓથી પુષ્ટ એવી પોતાની ગર્જનાની સાથે સ્પર્ધા કરતા મેના સમૂહને અતિકેપથી જાણે તિરસ્કાર કરતો ન હોય ? એમ જણાતું હતું. ૬
कुतूहलेनेव महीविहारिणं, महीधरं कैरववन्धुधारिणः ।
किमेतयोर्भाग्यनभोमणेरहः, शरद्विधोर्वा किमु पिण्डितं महः ॥७०॥ अथ वा उत्प्रेक्ष्यते-कुतूहलेन कौतुकेन मह्यां पृथिव्यां विहरति खेलति इत्येवंशीलं कैरवबन्धु चन्द्रं धरतीत्येवंशीलस्तस्य शंभोर्महीधर कैलासमिव । अथ वा किम् । उत्प्रेक्ष्यते । एतयो थीकुंराव्यवहारिणोर्भाग्य पुण्यं तदेव नभोमणिः सूर्यस्तस्याहदिनमिव । अह्रो भानोरुदयः । तथा एतस्मात्स्वप्नात्तयोर्भाग्याभ्युदयो भविष्यति । अथ वा शरद्विधोमघात्ययोदितचन्द्रस्य पिण्डितं पिण्डीभूत महः कान्तिरिव ॥ आदितः पञ्चभिः कुलकम् ॥ इति गजस्वप्नः ॥
શ્લોકાર્ધ અથવા એ હાથી, કૌતુકથી પૃથ્વી ઉપર ક્રીડા કરવા માટે આવેલ જાણે ઈશ્વરને કૈલાસપર્વત ન હોય ? અથવા નાથીદેવી અને કરાશાહના ભાગ્યરૂપી સૂર્યને જાણે ઉદય ન હોય ? અથવા તે શરદચંદ્રને પિંડરૂપે બનેલો જાણે તેજ:પુંજ ન હોય ? તેવા પ્રકારના શ્વેત અને શ્રેષ્ઠ હાથીને સ્વપ્નમાં જોયે. ll૭૦માં
व्यमोचि तं स्वप्नमवेक्ष्य संलये, विलोचनाम्भोरुहमुद्रणाऽनया। पयोरुहिण्येव पयोजबान्धवो-दये शचीकान्तहरिन्महीधरे ॥७१।।
अनया नाथीदेव्या संलये निद्रायाम् । 'निद्रा प्रमीला शयनं संवेशः स्वापसंलयौ' इति हैम्याम् ।तं पूर्वोक्त गजस्वममवेक्ष्य दृष्टा विलोचनाम्भोरुहयोनयनकमलयोर्मुद्रणा निमीलन व्यमोचि मुक्तम् । निद्रा त्यक्तेत्यर्थः। कयेव । पयोरुहिण्येव । यथा शच्या इन्द्राण्याः कान्तः शक्रस्तस्य हरित् दिक् पूर्वा तस्या महीधर उदयशैलस्तत्र पयोजबान्धवस्य भास्करस्य अभ्युदय विभाव्य पयोजिन्या पद्मिन्या नेत्रतुल्यपयोरुहयोर्मुद्रणा मुकुलनं विमोच्यते ॥