SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०४ हीरसौभाग्यम् सर्ग २ श्लो० ६४-६६ घे । चिखेल खेलति स्म । श्वैत्याद्भपतुल्योरूपमयो वा । तथा चम्पूकथायाम्-'राजते राजतेनायं सानुना सानुनायकः' इति । यथा शङ्ग तथा सर्वोऽप्यद्रिः । क इव । मृगाचूडामणिरिव । 'मृगाङ्कचूडामणिवर्जनार्जितम्' इति नैषधे । यथा-ईश्वरोऽद्रिचमिणो हिमाद्रेस्तनूजया पुत्र्या पार्वत्या सम रुप्याचले कैलाशे खेलति । इभ्यः किंभूतः। अद्भुतया विद्धच्चेतश्चमत्कारकारिण्या भूत्या संपदा भासुरो नागरिकेषु दीप्यमानः। शिवस्तु भस्मना शुभ्रः । 'भूतिस्तु भस्मनि । मांसपाकविशेषे च संपदुत्पादयोरपि' इत्यनेकार्थः॥ શ્લોકાર્યું અદભુત પ્રકારની સંપત્તિથી સુશોભિત કરાશાહ કેાઈ વખતે કશાદરી એવી પોતાની સ્ત્રીની સાથે રૂપમય ક્રીડાપર્વત ઉપર જેમ ઈશ્વર પાર્વતીની સાથે કૈલાસ પર્વત પર ક્રીડા કરે તેમ, કીડા १२d sdl. ॥१४॥ विनोदमेवं सृजतोरहर्निश, तयोः स्मराज्ञकवशंवदात्मनोः । दिनानि दोगुन्दकदेवयोरिव, प्रमोदभाजोरतिचक्रमुः क्रमात् ॥६५॥ तयोाथीकुंराव्यवहारिणोः क्रमाद्विविधविलासकरणपरिपाट्या दिनानि वासरा अतिचक्रमरतिक्रामन्ति स्म । तयोः किंभूतयोः । प्रमोदभाजोरानन्दमेदुरयोः । पुनः किंभूतयोः । सरस्य मदनस्याज्ञा आदेशः तस्या एकोऽद्वितीयो वशंवद आयत्त आत्मा चित्त च ययोस्तौ । पुनः किं कुर्वतोः । एवं पूर्वोक्तप्रकारेण अहर्निश निरन्तर विनोदं क्रोडां सृजतोः । कयोरिव । दोगुन्दकदेवयोरिव । यथा दोगुन्दकदेवयोविविधक्रीडाकुर्वतोर्वासरा अतिक्रान्ति ॥ इति दम्पत्योर्वनादिक्रीडाकारणादिः ॥ પ્લેકાર્થ કામદેવની આજ્ઞાને આધીન નિરંતર વિવિધ પ્રકારની ક્રિીડાને કરતા એવા તે દંપતીના સુખમય દિવસે દોગંદકદેવની જેમ આનંદપૂર્વક પસાર થતા હતા. આપા कदाचिदम्भोरहिणीव निद्रया, सुखं प्रसुप्ता प्रहरेऽन्तिमे निशः । तदङ्गना स्वप्नसरोवगाहिनं, न्यभालयज्जम्भनिशुम्भकुम्भिनम् ॥६६॥ कदाचिदाधानकाले तदङ्गना कुरापत्नी नाथी निशो रात्रेरन्तिमे पश्चिमे चतुर्थे प्रहरे यामे जम्भनाम्नो दैत्यस्य निशुम्भो हिंसनं यस्य यस्माद्वाास इन्द्रस्तस्य कुम्भिनमैरावण न्यभालयत्पश्यति स्म । किंभूतम् । स्वप्न एव सरस्तटाकस्तमवगाहते भजते इत्येवंशीलः । ऐरावणोऽपि तदङ्गना इत्यतोऽकारपृथक्करणेन अस्वप्नानां सरो नन्दीसरोनामान' पद्माकरमवगाहते मध्ये प्रविश्य क्रीडया इतस्ततः स्वेच्छया गच्छतीत्येवंशील: स्यात् । किंभूता तदङ्गना । निद्रया निरतित्त्वापेन । अत एव सुख यथा स्यात्तथा । सातेनेत्यर्थः । प्रसुप्ता शय्यायां शयाना । केव । अम्बुरुहिणीव । यथा पद्मिनी रात्रौ स्वपिति ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy