________________
सर्ग २ श्लो० ६१-६४] हीरसौभाग्यम्
१०३ આદિ વૃક્ષોના સમૂહથી યુક્ત પોતાના ગૃહઉદ્યાનમાં, જેમ ભ્રમર ભ્રમરીની સાથે ક્રીડા કરે તેમ, સ્વસ્ત્રીની સાથે ક્રોડ કરતા હતા. ૬ti
रसालसालस्य तले विलासिना, प्रणीय वीणां कणनानुवादिनीम् ।
अगीयत श्रोत्रसुधारसोपमं, कचिन्मृगाक्ष्या सह किंनरेन्द्रवत् ॥६२॥ विलासिना क्रीडाशीलेन कुंरासाधुना मृगाक्ष्या खप्रियया नाथीदेव्या सह कुत्रापि कस्मिन्नपि वनप्रदेशे रसालसालस्य सहकारतरोस्तले अधोभूमौ श्रोत्रयोः कर्णयोः सुधारसस्य अमृतनिस्यन्दस्य उपमा साम्य यत्रैवंविधमगीयत गीतम् । किं कृत्वा । क्वणन निजध्वनिमनुवदतीति अनुकरोतीत्येवंशीलां वीणां प्रणीय सज्जीकृत्य । कवत् । किनरेन्द्रवत् । यथा कि रुषेश्वरेण स्वरसेन स्त्रिया सह गीयते ॥
શ્લેકાર્થ ક્રીડાપ્રિય એવા કુરાશાહ કોઈ અવસરે મૃગલોચના એવી વીણાને, સજજ કરી, કર્ણને મધુર અમૃત સમાન ગીતગાન કરતા હતાં. જેમ ગાંધર્વ સ્ત્રીની સાથે મધુરસ્વરે ગીતગાન કરે તેમ ગીતગાન કરતા હતા. ૬૨
कदापि मन्दार इव स्मितद्रुमे, विलासदोलामवलम्ब्य लीलया। न्यखेलि तेनेापवने मृगीदृशा, समं स्वदेव्या घुसदेव नन्दने ॥६३॥
कस्मिन्नप्यवसरे तेन व्यवहारिणा मृगीदृशा स्वदयितया सह उपवने पुरस्य वा स्वगृहस्य समीपारामे लीलया शृङ्गारभावजक्रियया न्यखेलि क्रीडितम् । 'लीला केलिर्विलासश्च शृङ्गारभावजा क्रिया' इत्यनेकार्थः । अत्र विलासः स्थानादीनां वैशद्यमित्यवचूर्णी कि कृत्वा । मन्दारे कल्पद्रुमे इव । कस्मिन्नपि स्मितद्रुमे विकसिततरौ । तरुशाखायामित्यर्थः । विलासार्थ दोलां क्रीडाकृते प्रेखोलनमवलम्ब्याश्रित्य । केनेव । द्युसदेव । यथा देवेन स्वदेव्या मन्दारे मन्दारनाम्नि कल्पवृक्षे दोलां बद्ध्वा नन्दनवने क्रीड्यते ॥
साथ જેમ નંદન વનમાં દેવ દેવીની સાથે કલ્પવૃક્ષ ઉપર હિંડોળે બાંધીને ક્રીડા કરે તેમ, કઈ વખત કરાશાહ નાથીદેવી સાથે ગૃહઉદ્યાનમાં કેઈ વિકસ્વર વૃક્ષ ઉપર હિંડોળો બાંધીને લીલાપૂર્વક ક્રીડા કરતા હતા. ૬૩
कदाचिदिभ्यः कलधौतभूधरे, चिखेल सार्ध परमाणुमध्यया ।
मृगाङ्कचूडामणिरदिचक्रिण-स्तनूजयेवाद् भुतभूतिभासुरः ॥६४॥ इभ्यो व्यवहारी कदाचित्कस्मिन्नपि वासरे कलधौतभूधरे क्रीडार्थनिर्मितरजतपर्वते परमाणुमध्यया स्वकृशोदर्या नाथीदेव्या समम् । 'अध्यापयामः परमाणुमध्याः' इति नैष