________________
१०२
हीरसौभाग्यम् [सर्ग २ श्लो० ५९-६१ राणि जाम्बूनदानि सौवर्णानि यानि पद्मानि तेभ्यो निष्पतद्भिनिःसरद्भिविंगलद्भिः परागै रजोभिः पिङ्गीकृतेन पीततां प्रापितेन वारिणा जलेन शालते शोभते इत्येवंशीलस्तस्मिन् । कनककमलसद्भावश्चम्पूकथोक्तेन प्राग्दर्शितोऽस्तीति । केनेव । करिणेव । यथा करिणा हस्तिना करिण्या स्वहस्तिन्या सम विन्ध्याचलजलाशये क्रीड्यते ॥
साथ કઈ અવસરે કુરાશાહ મૃગલોચના એવી પોતાની સ્ત્રીની સાથે કમલોથી વ્યાપ્ત એવા તલાવમાં કીડા કરતા હતા. વિકસ્વર સોનેરી કમલોની રજકણોના પડવાથી પીળા પડી ગયેલા પાણીવાળા તલાવમાં કેમ હાથી પોતાની હાથણી સાથે વિંધ્યાચલના જલાશયમાં દડા ?
स्मितारविन्दोदयदिन्दुविभ्रमा-दिवाम्बुलीलासमये तयोर्मुखे ।
विमुग्धसारङ्गचकारशावका, मरन्दपीयूषपिपासयाऽभजन् ॥६०॥
विमुग्धा अचतुराः सारङ्गाणां भृङ्गाणाम् । 'सारङ्गो हरिणे शैले कुञ्जरे चातके खगे। शबले चिश्विरीके च' इत्यनेकार्थतिलके। चकोराणां ज्योत्स्नाप्रियाणां शावका याला अम्बुलीलासमये जलक्रीडाकरणव्यतिकरे तयो थीकुंरामहेभ्ययोर्मुखे वक्त्रे अभजन सेवन्ते स्म । कया । मरन्दानां मधूनां पीयूषाणाममृतानां च पिपासया पातुमिच्छया । इवोत्प्रेक्ष्यते-स्मितारविन्दस्य विकसितकमलस्य तथा उदयत उदयं गच्छत इन्दोश्चन्द्रस्य च भ्रमाद्धान्तेः । 'कणेहत्य चकोरीणां गणः पीत्वा सुधासवम् । अजायत मदेनेव गुञ्जापुजारुणेक्षणः ॥' इति चकोराणां सुधापान वस्तुपालकीर्तिकौमुद्याम् ॥
st જલક્રીડાના અવસરે, મુગ્ધ શ્રમ અને ચકોરિકા વિકસ્વર કમલ અને ઉગતા ચંદ્રની ભ્રાન્તિથી રસ અને અમૃતપાનની ઈચ્છાથી નાથીદેવી અને કુરાશાહના મુખકમલને અને મુખચંદ્રને ભજતાં ii. ॥१०॥
प्रफुल्लकङ्केल्लिरसालमल्लिका-कदम्बजम्बूनिकुरम्बचुम्बिते । अलीव साकं सुदृशा स निष्कुटे, कदापि रेमे श्रितमुनशीलनः ॥६॥
स महेभ्यः कदापि कस्मिन्नपि समये सुदृशा स्वस्त्रिया साक सार्घ निष्कुटे गृहारामे रेमे क्रीडति स्म । क इव । अलीव । यथा भ्रमरो भ्रमर्या सममारामे रमते । किंभूतः । श्रित निर्मित सूनानां कुसुमानां शीलनमवचयमालाग्रन्थनप्रियावतंसीकरणादि येन । भृङ्गोऽपि पुष्पसेवी । किं भूते निष्कुटे । प्रफुल्लाः कुसुमिता ग्ये ककेल्लयोऽशोकाः, रसालाः सहकाराः, मल्लिका विचकिलाः, कदम्बा नीपाः धाराकदम्बाश्च, जम्ब्वः श्यामफलाः प्रसिद्धाः तेषां निकुरम्ब वृन्द' तेन चुम्बिते कलिते ॥
પ્લેકાર્થ પુપોના સમૂહથી શોભતા કરાશાહ કઈ અવસરે વિકસ્વર અશોક, આમ્ર, મહિલકા, કદંબ અને જાંબુ