SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सर्ग २ श्लो०५७-५९] हीरसौभाग्यम् १०१ भ्रमरे स्कन्धे' इत्यनेकार्थः । 'निद्रां विहारार्धपथे गतानाम्' इति रघौ । अर्कस्य सुता मिव यमुनामिव कस्तूरीद्रवैः श्यामलीकृतजलाम् अत एव यमुनोपमां निर्मिमा कुवत । किंभूतौ । जलकेलौ सलिलकीडायां लालसौ लोलौ । 'लालसा लोलयाञ्चयोः । तृष्णातिरेके औत्सुक्ये' इत्यनेकार्थः ॥ શ્લેાકા કોઇ કોઇ અવસરે જલક્રીડામાં ઉત્સુક બન્ને દ'પતી કૃષ્ણાગુરુ કરાયેલાં વક્ષસ્થલને ધાવાથી યમુનાની જેમ શ્યામ જલવાળી એવી હતાં તાપણા અને કસ્તૂરીના લેપથી વ્યાપ્ત ક્રીડાનદીનુ નિર્માણુ કરતા कुमुत्स्मिता षट्पदपङ्तिकुन्तला, स्मितोत्पलाक्षी कजकुड्मलस्तनी । प्रियेव पाथः प्लवने सहंसिका, तरङ्गबाहुः सरिदालिलिङ्ग तम् ॥५८॥ सरित् क्रीडानदी । पाथः प्लवने जलकेलिसमये स्नानविधाने तं महेभ्य कुंरासाधुमालिलिङ्ग । केव । प्रियेव । यथा पाणिगृहीती पत्नी स्वपतिमाश्लिष्यति । किंभूता नदी प्रिया च । कुमुत्कैरवम् । जातावेकवचनम् । तदेव तद्वद्वा स्मितमीषद्धसित यस्याः सा । भर्त्रा श्लेषणसमये स्त्रियाः किंचित्स्मित जायते । पुनः किंभूता । षट्पदानां भ्रमराणां पक्तयः श्रेणयस्ता एव तद्वच्च श्यामाः कुन्तला केशा यस्याः । पुनः किंभूता । स्मित' विकसित यदुत्पल' तदेव तद्वद्वा अक्षिणी चक्षुषी यस्याः । ' किमु कुवलयनेत्राः सन्ति नो नानार्यस्त्रिदशपतिरहल्यां तापसी यत्सिषेवे । हृदयतृणकुटिरे दीप्यमाने स्मराग्नाबुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ इति चम्पूकथायाम् । पुनः किंभूता कजकुड्भलौ कमलमुकुलौ तावेव तद्वद्वा स्तनौ कुचौ यस्याः । पुनः किंभूता । हंस एव हंसकः । 'हँसको हंसनूपुरयोः' । सह हंसकैर्भरालैर्हं सकाभ्यां नूपुराभ्यां वा वर्तते या । पुनः किंभूता । तरङ्गौ अर्थादुभयपार्श्ववर्तिनौ कल्लोलौ तावेव च तत्तुल्यौ बाहू भुजौ यस्याः ॥ શ્લાકા જલક્રીડાના સમયે ક્રીડાનદી પ્રિયાની જેમ કુરાશાહને અલિંગન કરતી હતી. કુમુદૃરૂપી હાસ્ય કરતી, ભ્રમરાની પ‘તિરૂપી શ્યામકેશવાળી, વિકસ્વર કમલેારૂપી નેત્રોવાળી, કમલની કળીરૂપી સ્તનવાળી, બાલહંસરૂપી ઝાંઝર વાળી, અને તર ંગરૂપી બાહુવાળી એવી ક્રીડાનદી જેમ પ્રિયા પેાતાના પતિને આલિંગન કરે તેમ, જાણે આલિંગન કરતી હોય તેમ જણાતું હતું. ૫૫૮૫ विजृम्भिजाम्बूनदपद्मनिष्पत-त्परागपिङ्गीकृतवारिशालिनि । समं करिण्या करिणेव पङ्कजा-करेऽमुनाऽक्रीडि कुरङ्गचक्षुषा ॥५९॥ अमुना कुंरामहेभ्येन कुरङ्गचक्षुषा स्वमृगलोचनया आत्मस्त्रिया सम कदाचित्पकजाकरे कमलकलिततटाके अक्रीडि क्रीडां चक्रे । किंभूते पङ्कजाकरे । विजृम्भीणि विस्मे
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy