________________
सर्ग २ श्लो० ५२-५५] हीरसौभाग्यम् દેવીના ચરણોની શોભાનું બે કમલેએ અનુકરણ કર્યું. દેદીપ્યમાન પાંદડાવાળા, રસ ઝરતાં અને અવાજ કરતા હોવાનાં કમલોએ નાથીદેવીનાં ચરણોની સદશતા ધારણ કરી. પરમા
प्रभाप्रथातैलकरम्बितान्तरे, यदङ्घ्रिपात्रेऽङ्गुलिवर्तिवर्तिनः । नखाः प्रदीपा इव विस्फुरत्त्विषोऽ-पुषन् विभूपामभिभूततामसाः ॥५३॥
नखा अर्थान्नाथीकामाकुशाः प्रदीपा इव विभूषां शोभामपुषन् पुष्टामकार्षुः ।। यद िपात्रे यस्याश्चरणनाम्नि अमत्रे भाजने । किंभूते। प्रभानां कान्तीनांप्रथा विस्तार एव तैल स्नेहस्तेन करम्बितमर्थात्संपूर्णमन्तर मध्य यस्य तस्मिन् । नखाः किंभूताः । अङ्गुलय एव वर्तयो दशास्तासु वर्तन्ते तिष्ठन्तीत्येवंशीलाः । पुनः किंभूताः । विस्फुरन्ती विद्योतमाना त्विट्र ज्योतिर्येषां ते पुनः किंभूताः। अभिभूता ध्वस्तास्तामसास्तमसां ध्वान्तानां समूहा यैस्ते । 'तामसास्तिग्मरोचिषः' इति वीतरागस्तवे ॥
શ્લેકાર્થ નાથીદેવીના નખો દીપકની જેમ શોભાની વૃદ્ધિ કરતા હતા. કાન્તિના સમૂહરૂપ તેલથી જેનો મધ્યભાગ વ્યાપ્ત છે તેવા પ્રકારના નાથીદેવીના ચરણરૂપ પાત્રમાં આંગળીરૂપી દીવેટામાં રહેનારા સ્કરાયમાન જ્યોતિથી અંધકારને નાશ કરનારા “નખો પગની અદ્દભુત શેભાને વધારતા હતા. ૫મા
व्यलीलसत् पाटलिमा पदाम्बुज-द्वयस्य यस्याः सरसीजचक्षुषः । स्वमार्दवेनाभिभवं विधित्सतः, प्रवालपुजैरुपदीकृतः किसु ॥५४॥ सरसीज कमल तच्चक्षुर्लोचन यस्यास्तादृश्या यस्याः पदाम्बुजयोश्चरणकमलयो. यस्य युगलस्य पाटलिमा रक्तता व्यलीलसद्भासते स्म । किमुत्प्रेक्ष्यते-स्वमार्दवेन निजसुकुमारतया अभिभव पराभूतिं विधित्सतो विधातुमिच्छतः चरणारविन्दद्वन्द्वस्य प्रवालपुजैः पल्लवपटलैः उपदीकृतः किमु । ढौकित इव ॥
કમલાક્ષી નાથીદેવીના ચરણકમલની (તલીયાની) લાલિમા શોભતી હતી. પોતાની સુકમારતાથી પરાભવને ઈચ્છતા પ્રવાલના સમૂહોએ નાથીદેવીનાં ચરણયુગલ ને પિતાની લાલિમા ભટણા રૂપે કરી ન હોયTI૫૪
असौ जयन्ती जलजं स्वपाणिना, रदैश्च तारश्रियमात्मना रमाम् । मृगाङ्कमास्येन रुचा च चम्पकं, स्मरस्य हेतिः किमु विश्वजित्वरी ॥५५॥
असौ नाथीदेवी । किमुत्प्रेक्ष्यते-विश्वजित्वरी जगजयनशीला स्मरस्य कामस्य हेतिः किमु शस्त्रमिव । जगज्जिष्णुतां दर्शयति-असौ कि कुर्वती। जयन्ती पराभवन्ती । किम् । जलज कमलम् । केन । खपाणिना निजहस्तेन । पुनः काम् । तारथिय तार