________________
९८
सौभाग्यम्
[सर्ग २ श्लो० ५०-५२
वस्थानम् अन्तर्धानविधिविद्या गुल्फद्वयेनाप्ता । अरुन्धत्यादिसंनिधाने अदृश्यसिद्धिर्युक्तैव । चतुर्दशीतिथौ चादृश्यसिद्धिर्जायते इत्यागमशास्त्रसंप्रदायः । 'गुल्फयोश्चानभिव्यक्तत्वं सुलक्षणम्' इति । तत्रोत्प्रेक्ष्यते - जङ्घयोश्चरणयोः शोचिः कान्तिरेव सलिल पानीय तस्मि निमज्जनाद्रडनादिव । जले निमग्न न दृश्यते इति प्रसिद्धिः ।
શ્લોકા
નાથાદેવીની એ જધા જાણે કામદેવના મંદિરના આધારભૂત છે સ્ત ંભે ન હેાય ? અને તેના પગની ઘુંટીએ પણ અદશ્ય હતી. તે જાણે તેના બે પગની કાન્તિરૂપ જલમાં નિમગ્ન હોવાથી ગુપ્ત રહી ન હેાય ? ।।પના
पदारविन्दोन्नतताभिरात्मनः, पराजितैः कुञ्जरराजयानया ।
अगोपि मन्दाक्षविलक्षितात्मभिर्वने वसद्भिः कमठैरवाननम् । ५१ ॥
कमठैः कच्छपैराननः स्वमुखमगोपि गुप्तीकृतम् । क्रोटिक्षेपणादिति शेषः । किं कुर्वद्भिः । वने जले विपिने वा वसद्भिस्तिष्ठद्भिः । 'वन' प्रस्रवणे गेहे प्रवासेऽम्भसि कानने । समूहे पर्वतेऽपि स्यात् (प्रस्रवणे निर्झरे ) ' इत्यनेकार्थः । किमुत्प्रेक्ष्यते—– कुञ्जररा - जयानया गजेन्द्रगमनया यया आत्मनः स्वस्य पदारविन्दयोश्चरणकमलयोरुन्नतताभिः पराजितैः सद्भिः मन्दाक्षेण लज्जया विलक्षितो विमनीभूत आत्मा चित्तं यस्य तादृशैः किमास्यमगोपि । ' आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽकै हुताशनसमीरयोः ॥ स्वभावे, इत्यनेकार्थः ॥
શ્લાકા
ગજગામિની એવી નાથીદેવીના ચરણકમલની ઉન્નતતાવડે પરાજિત થવાથી લજજાવડે વિલખા બનીને જાણે પેાતાના મુખને ઢાંકી દીધું ન હોય ? તેમ વનમાં કે જલમાં વસતા કાચબાએ પેાતાના મુખને છુપાવ્યુ’. ॥૫॥
यदीयपादौ सरलाङ्गुली द्युता, करम्बितौ ज्ञांकृतिकारिनूपुरौ । श्रियानुयातः कमले दलदले, मरन्दनिःस्यन्दिनदत्सितच्छदे ॥ ५२ ॥
यदीयौ पादौ नाथी संबन्धिनौ चरणौ श्रिया शोभया कमले पझे अनुयातः अनुकुरुतः । सदृशौ भवत इत्यर्थः । किंभूतौ पादौ । सरला अकुटिला अङ्गुलयः पदशाखा ययोः । पुनः किंभूतौ । द्युता कान्त्या करम्बितौ व्याप्तौ । पुनः किंभूतौ । झांकृति रणझणितिशब्दं कुरुत इत्येवंशीलौ नूपुरौ मञ्जीरौ ययोः । कमले किंभूते । दलन्ति विजृम्भमाणानि दलानि पत्राणि ययोः । पुनः किंभूते । मरन्दं मधु निःस्यन्देते क्षरत इत्येवंशीले । तथा-- नदन्तः शब्दायमानाः सितच्छदा हंसा ययोस्तौ पश्चात्कर्मधारयः ॥
ક્લાકાથ
સરળ અંગુલિવાળા, કાંતિથી વ્યાપ્ત અને નૂપુર (ઝાંઝર)નાં ઝણકારથી યુક્ત એવા નાથી