________________
सर्ग २ श्लो० ४८-५०] हीरसौभाग्यम् गृहीत्वा किमु चक्रे । कि कृत्वा । निरस्य अपाकृत्य कर्षयित्वा । किम् । कार्कश्य कठिनताम् । कस्मात् । करीन्द्रः प्रधानहस्ती भद्रजातीयगन्धसिन्धुरस्तस्य हस्तःशुण्डादण्डस्तस्मात् । पुनः किं कृत्वा । निरस्य अपास्य । काम् । असारताम् । कुतः। कदलीप्रकाण्डतः रम्भाद्रुमस्य मूलशाखावधिप्रदेशस्यान्तरालभागात् ॥
साथ બ્રહ્માએ, પરસ્પરની ઉપમાને વહન કરતા એવા નાથીદેવીના બે સાથળનું નિર્માણ કર્યું. ગંધહસ્તિની શું અને કેળવૃક્ષના થડના વચલા ભાગને લઈને શૂદ્ધની કઠોરતા અને કેળવૃક્ષના થડની અસારતા દૂર કરીને, જાણે બે સાથળ બનાવ્યાં ન હોય ? અથત નાથીદેવીના સાથળ અતિકે મળ હતા. ૪૮
यदूरुजङ्घायुगयोर्विवृत्सतोः, परस्पराद्वैतविरोधिताजुपोः । द्विराजताया भयतस्तदन्तरा-निवासिजानू किमलक्ष्यतां गतौ॥४९॥
यस्या ऊरुजङ्घायुगयोरन्तराले मध्ये निवासिनौ नितरां वसनशीलौ जानू ऊरुपर्वणी अलक्ष्यतामदृश्यभाव गतौ प्राप्तौ । किं कर्तुमिच्छतोः। विवृत्सतोः वधितुमिच्छताः । किंभूतयोर्यदूरुयुगयोः-परस्परमन्योन्य या अद्वैतता असाधारणत्वतया विरोधितावैरिभावः । ऊरू जधे आक्रम्य तदुपरिस्थते । इदमेव परमविद्वेषितामूलम् । तां जुषेते सेवेते । किमुत्प्रेक्ष्यते-द्वौ राजानौ यत्र तद् द्विराज द्विराजस्य भावो द्विराजता द्वैराज्यस्य भयतो भयात् किमदृश्यतां याताविव ॥
साथ નાથદેવીના બે જંધા (સાથળની મધ્યમાં રહેલા બે ઢીંચણ અદશ્ય હતા. તે બન્ને એક બીજાથી વધવાની ઈચ્છાથી પરસ્પર અસાધારણકોટિના વૈરભાવને ધારણ કરતા જાણે બે રાજાના ભયથી અદશ્ય રહ્યા ન હોય ? ૪૯
रतीशगेहेऽजनि यत्र जङ्घयो-हाश्रयस्थूणिकयोरिव द्वयम् ।
यदीयगुल्फावपि गुप्ततां गता-विवाघ्रिशोचिःसलिले निमज्जनात् ॥५०॥
यत्र देहे जक्योर्द्वयमजनि । उत्प्रेक्ष्यते-रतीशस्य सरस्य गेहे मन्दिरे गृहाश्रययोः सौधाधारभूतयोः स्थूणिकयोः स्तम्भयोर्द्धयमिव । अपि पुनर्यदीयगुल्फो नाथीचरणग्रन्थी गुप्ततां प्रच्छन्नतां प्राप्तौ । स्त्रीणां गुल्फावदृश्यावेव वयेते । यथा नैषधे-'अरुन्धती कामपुरन्धिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् । चतुर्दशीय तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥' एतवृत्तिः–'वसिष्ठपत्नी च, रतिश्च, लक्ष्मीश्च, जम्भद्विषदाराः शची सा च, नवाम्बिका नवदुर्गास्ताश्च, एतासामियौं भैमी चतुर्दशी चतुर्दशसंख्यापूरिकापि चतुदशी तिथिश्च तत्तुल्येत्यर्थः । तदिहास्यां भैम्यामुचितैव यतो हेतोरदृश्यसिद्धिरदृश्यतयाऽ