________________
९२
हीरसौभाग्यम् [सर्ग २ श्लो० ३७-३९ पृथक्पृथक्पञ्चमुखद्विषन्मुखान् , निहन्तुकामेन रुषा मनोभुवा ।
शराश्रये यत्करनाम्नि कल्पिता, अभी शराः पञ्च किमगुलीमयाः ॥३७॥
मनोभुवा चेतोजन्मना स्मरेण यस्या हीरजनन्याः करः पाणिरेव नाम यस्य तादृशे तस्मिन् वा शराश्रये तूणीरे। किमुत्प्रेक्ष्यते-अगुलीमयाः करशाखारूपाः पञ्च कल्पद्रुमसंख्याकाः अमी जनदृग्गोचराः कल्पिता रचिता इव । स्मरेण किं कर्तुकामेन । रुषा खव्यापादनापादनोदितद्वेषाकोपेन पञ्चमुखः शंभुरेव द्विषन् वैरी तस्य मुखान् पञ्चसंख्या कानि वक्त्राणि । मुखशब्दः पुनपुंसके । पृथक् पृथक् भिन्नानि भिन्नानि कृत्वा निहन्तुकामेन छेत्तुमिच्छता । एतावता पञ्च शिरांसि छेत्तुमित्यर्थः । मुखशब्देन शिरःसमेतमेव । यथा दशमुखस्य । 'हरिहरि हरिणीदृशो निमित्त दश दशकंधरमौलयो लुठन्ति' इति खण्डप्रशस्तौ । यथा तत्र दश मौलयस्तथात्रापि पश्चापि मस्तकानि इति ॥
सार्थ પિતાના શત્રુ ઈશ્વરના પાંચ મસ્તકેને ભિન્ન ભિન્ન હવાની ઈચ્છાથી કામદેવે, રોષથી નાથીદેવીના હાથ’ નામના ભાથામાં પાંચ અંગુ લરૂપી પાંચ બાણને જાણે બનાવ્યાં ન હોય? ૩૭
यदीयपृष्ठे कनकत्विषि स्मित-प्रसनशून्येतरकुन्तलच्छटा । शिलातले स्वर्गिगिरेरिव ग्रहा-किताभ्रवीथी प्रतिविम्विता व्यभात् ॥३८||
कनकत्विषि काञ्चनकान्तिनि यस्या इदं यदीय नाथीसंबन्धि तच्च तत्पृष्ठच तनोश्चरमः प्रदेशः । 'पृष्ठ तु चरम तनोः' इति हैम्याम् । तत्र स्मितैविकसितैः प्रसूनैः पुष्पैः शून्येतरा निर्भरभृता कुन्तलच्छटा केशश्रेणिय॑भावभासे । केव । अभ्रवीथीव । ... ....... यथा स्वर्गिगिरेमरोः काञ्चनेन स्वर्णत्वेन त्विषते दीप्यते इति काञ्चनत्विट्र तस्मिन् तादृशे शिलातले प्रतिबिम्बिता । 'तत्कम्बुप्रतिबिम्बित किमु शरत्पर्जन्यराजिश्रियः' इति नैषधे । अभ्रवीथी गमनपद्धतिर्विभाति । 'वीथी वर्त्मनि पङ्कक्तौ च गृहाने नाट्यरूपके' इत्यनेकार्थः । किंभूता अभ्रवीथी । ग्रहैरुपलक्षणान्नक्षत्रताराग्रहः अङ्किताः सहिताः ॥
___ अर्थ નાથીદેવીના સુવર્ણની કાન્તિ સમાન પૃષ્ઠભાગમાં વિકસિત પુષ્પાવડે નિર્ભર અને ભરાવદાર એવી કેશલતા શમે છે તે મેરુપર્વતના શિલાનલ ઉપર પ્રતિબિંબિત થયેલી ગ્રહનક્ષત્રોવાળી જાગે ગગનપદ્ધતિ (આકાશમાર્ગ) ન હોય ? ll૩૮II
परानवाप्यान्निजवासपत्तना-मनोभिधानान्मदनावनीभुजः ।
जगद्विजेतुं चलितस्य हृत्सुम-सजा पुरो वन्दनमालिकायितम् ॥३९॥
यस्या नाथीदेव्या हृत् हृदय नत्र वक्षसि सुमस्रजा पुष्पमालया मदनावनीभुजः सरराजस्य पुरोऽग्रे पुरस्ताद्वन्दनमालिकायित मङ्गल्यदामवदाचरितम् । मङ्गलाय जातमित्यर्थः । किंभूतस्य मदनस्य । चलितस्य । प्रस्थितस्य । कुतः। परैरन्यराजन्यजनैर