________________
९०
हीरसौभाग्यम्
[ सर्ग २ श्लो० ३२-३४
कथम् । यथा येन स्वर्वैभवादानाविर्भूताद्वैतदुःखातिरेकेण तस्य चन्द्रस्य हृत् हृदयमस्फुटत् स्फुटितम् इति चेन्न भवेत्तदा कुतः कारणात् क्षुद्रो लघुर्यस्तस्य चन्द्रस्याङ्कः कलङ्कः स एव रन्ध्र छिद्र ततस्तस्मात्ततश्चन्द्रात्सुधा निरित्वरी निर्गमनशीला स्यात् ॥
શ્લેાકા
આ નાથીદેવીના મુખે પેાતાની કાન્તિથી ચંદ્રને જીતીને ચંદ્ર પાસેથી લક્ષ્મીને ગ્રહણ કરી હતી. આ રીતે પેાતાના વૈભવ ચાલ્યેા જવાથી દુઃખના અતિરેકથી ચંદ્રનું હ્રદય વિદીણું થઈ ગયું (ફુટી ગયુ)? જો એમ ના હાય તેા કયા કારણથી ચંદ્રના નાના એવા કલ`કરૂપી દ્રિમાંથી નિર ંતર અમૃતનું નિમન થાય ? ।।૩૨।
समं यदास्येन मृधे महौजसा, निरोजसाऽभाजि किमेणलक्ष्मणा । यतोऽमुनाद्यापि तदङ्कबोधिका, व्यमोचि नाभ्रभ्रमणी कदाचन ||३३||
1
महौजसा महाकान्तिना महाबलेन वा महाप्रतापेन वा । 'ओजो दीप्तिप्रकाशयोः । अवष्टम्भे बले धातुतेजसोः' इत्यनेकार्थः । 'प्राणः स्थामतरः पराक्रमबलद्युम्नानि शौर्यो - जसी' इति हैम्याम् । ओजःशब्देन प्रतापोऽप्युच्यते । यथा नैषधे- 'तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेष कैतवात्तदा विधिः कुण्डलनां विधोरपि ॥' इति । यदास्येन नाथीमुखेन समं सार्धं मृधे संग्रामे निरोजसा निर्वलेन एणलक्ष्मणा मृगलाञ्छनेन चन्द्रेण अभाजि भग्नम् | पलायितमित्यर्थः । यतो यस्मात्कारणात् अमुना विधुना तस्य भङ्गस्य अङ्कश्चिह्न तस्य वोधिका ज्ञापयित्री कथयित्री वा । निजत्रिनेत्रावतरत्वबोधिका' इति नैषधे ' कदाचनापि कस्मिन्नपि प्रस्तावे | अद्ययावदित्यर्थः । अभ्र आकाशे भ्रमणी पर्यटनम् । 'विधेः कदाचिद्रमणी विलासे' इति नैषधे । नभसि भ्रान्तिर्न व्यमोचि न मुक्ता । नेत्यव्यय' निषेधे ॥
ક્લાકા
નાથીદેવીના મહાપ્રતાપી એવા મુખની સાથેના સંગ્રામમાં નિળ બની ગયેલા ચંદ્ર પલાયન થઈ ગયા ! માટે જ તેા હજુસુધી પણ ચંદ્ર તેના પલાયનને સૂચન કરતું એવું આકાશનું ભ્રમણ્ કયારે પણ મૂકતા નથી | ।।૩૩।।
त्रिनेत्रनेत्रानलभस्मितात्मभू-प्रभोर्जगन्निर्जयवाद नोचितः ।
जगत्कृतादाय यदङ्गनिर्मितौ किमेष कम्बुर्गलकन्दलीकृतः ||३४||
जगत्कृता विश्वविधायिना धात्रा यदङ्गनिर्मितौ नाथीदेहनिर्माणे । किमुत्प्रेक्ष्यतेपप प्रत्यक्षः करुवुः शङ्खो गलकन्दलीकृतः कण्ठपीठतां प्रापित इव । किं कृत्वा । आदाय गृहीत्वा अर्थात् कम्बुम् । कस्य । त्रिनेत्रः शिवस्तस्य नेत्र तृतीयलोचन तस्यानलेन कोपवह्निना भस्मितस्य ज्वलितस्य आत्मभूप्रभोः स्मरराजस्य । 'आत्मभूः स्मरवेधसोः' इत्यनेकार्थः । किंभूत कम्बुम् | जगतां सुरासुरनराणां निर्जये वादनस्योचितो योग्यः ॥