________________
८८
हीरसौभाग्यम्
[सर्ग २ श्लो० २७-३०
શ્લેકાર્થ પોતાના પતિ કરાશાહના મુખરૂપી ચંદ્રના દર્શનથી હૃદયમાં ઉત્કંઠિત થયેલા રાગરૂપી સાગરમાંથી નીકળેલી જાણે પ્રવાલની પંકિત ન હોય ? તેવા નાથીદેવીને અધર શોભતા હતા. ર૭ના
द्विजाधिपत्यं मुख एव मुख्यतो, मृगीदृशोऽस्या न कुमुद्वतीपतौ । द्विजैरमीभिर्यदसौ दिवानिशं, निषेवणाया विश्यं स्म नीयते ॥२८॥
अस्या मृगीदृशः सारङ्गलोचनाया मुखे वदने एव मुख्यतः प्राधान्याद् द्विजानामाधिपत्यमैश्वर्यमास्ते । पर कुमुद्वतीपतौ कुमुदिनीवल्लभे चन्द्रे न । यद्यस्मात्कारणात् असौ मुख एव । मुखशब्दः पुनपुंसके । दिवानिशम् अहोरात्रम् अमीभिश्चक्षुर्लक्ष्यैर्द्विजैर्दन्तैनिघेवणायाः सेवायाः विषय गोचरं नीयते स्म प्रापितः । चन्द्रस्य तु नक्षत्रताराग्रहा यथा प्रत्यक्षा दृश्यन्ते, तथा न द्विजा इति ॥
दा આ મૃગલોચના નિાથીદેવીના મુખમાં જ પ્રધાનતયા દિનું (દતિનું) આધિપત્ય છે, તેથી ચંદ્ર દિજપતિ હોવા છતાં તેનું આશ્વર્ય નથી. કારણકે આ દિવડે (દાંતાવડે) નિરંતર આ જ ચંદ્ર (મુખ) ની સેવા કરાય છે. મુિખ એ જ ચંદ્ર છે]
यदाननान्तर्वसतेः सुधारसा-दिवोद्गतः पाटल एप कन्दलः । विलासदोलेव निखेलितुं गिरोऽ-थवा मृगाक्षीरसना स्म शोभते ॥२९.।
मृगाक्ष्या नाथीदेव्या रसना जिह्वा शोभते स्म । उत्प्रेक्ष्यते-यस्या आननं मुख तस्यान्तर्मध्ये वसतिर्वासो यस्य तादृशात् सुधारसादमृतनिस्यन्दादुद्गतः प्ररूढः प्रकटी. भूतो वा पाटलो रक्त एष जिह्वालक्षणः कन्दलो नवाइकुर इव । अथवा पक्षान्तरे यद्धदनमध्यसौधाया गिरो वाग्देवताया निखेलितुमान्दोलितुदोलान्दोलनलीनां निर्मातुं विलासदोलेव क्रीडाप्रेखेव ॥
- કલેકાર્થ મૃગાક્ષીની નિાથીદેવીની છવા, જેના મુખમાં રહેલા અમૃતરસમાંથી ઉત્પન્ન થયેલા જાણે રાવણય નો અંકુર ન હોય ? તેવી શોભે છે. અથવા નાથીદેવીના મુખરૂપી મધ્યગૃહમાં સરસ્વતીદેવીને ક્રીડા કરવા માટે જાણે હિંડળો ન હોય તેવી જિદુવા શોભે છે. પર
यदीयवाचं विधिना विधित्सुना, सुधामुपात्तामधिगम्य निस्तुषाम् ।
सुधाशना अध्वरभोजिनस्तदा-दितो बभूवुस्तदभावतः किमु ॥३०॥
सुधाशनाः पीयषभोजना देवास्तदादितस्तद्दिवसप्रारम्भात् । यस्मिन्नहनि सुधा निष्ठिता तद्दिनमादौ कृत्वेत्यर्थः । किमुत्प्रेक्ष्यते-तस्याः सुधाया अभावात्क्षयादध्वरमर्थाधशांशं भुञ्जन्तीत्येवंशीला अध्वरभोजिनो यज्ञाहारा बभूवुः संजाता इव । कि कृत्वा ।