________________
हीरसौभाग्यम् सर्ग २ श्लो० १८-२० विधिविधाता विधुमादीश्वरमस्तकस्थसंपूर्णचन्द्रमादाय द्विधाकृत्य द्वौ खण्डौ विधाय अर्धन विधोस्तदेकभागेन यस्या ललाट भाल व्यधत्त चक्रे । अत्र गर्भितोत्प्रेक्षा। कृतवानिव । पुनः पर द्वितीयम शिवे ईश्वरे न्यधात्स्थापयामास । एवं चेन्न स्यात्तदा हरः शिवो मृगाङ्कार्धधरो अर्धचन्द्रभृत् । 'लब्धार्धचन्द्र ईशः' इति चम्पूकथायाम् । कथं केन प्रकारेण । च पुनस्तद्भाल तस्या ललाटमर्धचन्द्रोपम(मित)मष्टमीमृगाङ्कोपमानं च कथं कया रीत्या वहेद्धरेत् ॥
શ્લોકાઈ બ્રહ્માએ ઈશ્વરના મસ્તક ઉપર રહેલા સંપૂર્ણ ચંદ્ર ગ્રહણ કરી તેના બે ભાગ કરી, અર્ધા ભાગમાંથી નાથીદેવીના લલાટનું સર્જન કર્યું હતું અને બીજા અર્ધભાગને ઈશ્વરના મસ્તક ઉપર સ્થાપન કર્યો હતો! જે એમ ના હોય તે ઈશ્વર, “મૃગાંક અર્ધધર' અર્થાત અર્ધચંદ્રને ધારણ કરનાર કેમ હોઈ શકે ! વલી નાથીદેવીનું લલાટ પણ અર્ધચંદ્રના પ્રમાણવાળું અષ્ટમીના ચંદ્ર જેવું કેમ હાઈ श? in
मृगीदृशो हेलितकेलतीश्रियो, ललाटपट्टे कुरलेन निर्वभे । स्मितारविन्दस्य धियेव तस्थुषा, यदानने पौष्पपिपासयालिना ॥१९॥
तस्या मृगीदृशो नाथीदेव्या ललाटपट्टे भालस्थले कुरलेन भ्रमरालकेन निर्बभे बभासे । 'अक्षबाजवलयेन निर्वभे' इति रघुवंशे । किंभूताया मृगीदृशः । हेलिता अपगणिता केलत्याः कन्दर्पपल्या रत्याः श्री शोभा यया । 'केलतीमदनयोरुपाश्रये' इति नैषधे । उत्प्रेक्ष्यते-स्मितस्य विकसितस्यारविन्दस्य पद्मस्य धिया वुद्धया यदानने नाथीमुखे पौष्पस्य पुष्पाणामय पौष्पो रसः यथा पुष्पोद्भवरजस्तथा पुष्पोद्भवो मकरन्दोऽपि तस्य पिपासया पातुमिच्छया तस्थुपा स्थितवता अलिना भ्रमरेण च । कि च पौष्प मकरन्द इति भोजप्रवन्धादिकाव्येषु दृश्यते । तथापि सति परः पाठः-'स्मितारविन्दस्य धिया यदानने, स्थित रसस्येव पिपासयालिना' । उत्प्रेक्ष्यते-स्मितारविन्दस्येव प्रोज्जम्भिताम्भोजस्य धिया यदानने नाथीवदने रसस्य मकरन्दस्य । 'रसो मधु मकरन्दो मरन्दश्च' इति हैम्याम् । पिपासया पानस्याभिलाषेण स्थितमर्थादागत्य अलिना भृगेण स्थीयत इव ॥
લોકાઈ પોતાના સૌદર્યથી જેણે કામદેવની સ્ત્રી રતિનું સૌંદર્ય પરાજિત કર્યું છે, એવી આ નાથીદેવીના લલાટ ઉપર ભ્રમર શોભતી હતી. તે જાણે વિકરર કમલની બ્રા નથી, કમલના રસનું પાન કરવાની અભિલાષાથી નાથીદેવીના મુખ ઉપર આવીને રહેલા જાણે ભ્રમરો ન હોય ! અર્થાત અનિસુંદર ભ્રમરાકારે કેશગુચ્છ શોભતા હતા. ૧૯
अमूदृशाम्भोजदृशा स्म भूयते, न जातुचिद्यौवतनिर्मिती मम । इतीव रेखेयमिदंमुखे मषे-मिषाद् भ्रुवार्नाभिभुवा व्यधीयत ।।२०।।