SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सर्ग २ श्लो० १६-१८] हीरसौभाग्यम् ततं वचो यत्र नं पदाङ्गद-ध्वनिश्च काञ्च्याः शुषिरं स्वनः पुनः। तया बभे जङ्गमरङ्गशालया, किमत्र शृङ्गारनटस्य नृत्यतः ॥१६।। तया मृगदृशा नाथीदेव्या वभे शुभुमे । अत्र जगति । नृत्यतत्ताण्डव कुर्वतः शृङ्गारनाम्नो नवरसेप्वादिभूतस्य रसस्यैव । नटस्य नर्तकस्य जङ्गमया चलन्त्या रङ्गशालया नर्तनभवनभुवेव । यत्र रङ्गशालायां वचः अर्थात्तस्या वचन तत वीणाप्रभृतिक विस्तीर्ण च । च पुनर्यत्र पदागदानां नूपुराणाम् । 'नूपुर तु तुलाकोटिः पादतः कटकागदे' इति हैम्याम् । ध्वनी रावः । धन तालप्रभृतिक वहल चास्ति । पुनर्यत्र काऊच्या मेखलायाः स्वनः शब्दः शुपिरं वंशादिकं किंकिण्यादिज च वर्तते । 'ततं वीणाप्रभृतिक तालप्रभृतिक घनम् । वंशादिकं तु शुषिरम् ' इति हैम्याम् ॥ इति नाथीवर्णनम् ॥ शाजा આ નાથી દેવી, જગતમાં નાટક કરતા શૃંગાર રસ રૂ૫ રની હાલતી ચાલતી રંગશાલાની જેમ શોભતાં હતાં, જે રંગશાલામાં નાથાદેવીની વાણીરૂપી વીણાને સ્વર ગુંજતો હતો. વલી તેનાં નૂપુરના અવાજરૂપી તાલથી યુક્ત અને કંદરાની ઘૂઘરીઓના અવાજ રૂપી વાંસળીને સ્વર ચમકત હતો. અર્થાત નાથીદેવી જંગમ નાટયશાલા ન હોય! તેવા પ્રકારે શોભતાં હતાં. ૧૬ जगत्रयीजन्मजुषां मृगीदृशां, विजित्य राजीनिजजित्वरश्रिया । अधारि किं मूर्धनि पनचक्षुषा, जयाङ्कवालव्यजनं कचच्छटा ॥१७।। यया पद्मचक्षुषा कमललोचनया नाथीदेव्या मूर्धनि स्वमस्तके कचच्छटा केशपाशः । 'वालाः स्युस्तत्पराः पाशो रचना भार उच्चयः । हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥' इति हैम्याम् । तथा छटाशब्दः समूहवाचकश्च । 'तटान्तविश्रान्ततुरङ्गमच्छटा' इति नैपधे । किमुत्प्रेक्ष्यते-जयाङ्कवालव्यजन वैरिविजयसूचकचिह्नचामर कि धृतमिव । अर्थात्स्वमस्तके । जयचिह्न हि चामराङ्कुशादिक मौलावेव ध्रियते । गारुडिकादीनामद्यापि तथैव दर्शनात् । कि कृत्वा । विजित्य परिभूय । कया । निजस्यात्मनो जित्वर्या जयनशीलया श्रिया शोभया पुंवद्भावे ईकारलोपः । काः। राजीः श्रेणीः । कासाम् । मृगीदृशां हरिणनयनानां स्त्रीणाम् । जगतां नागलोकस्वर्लोकभूलोकानां त्रयी त्रिक तत्र जन्मावतार जुषन्ते भजन्ते तादृशीनाम् । त्रिभुवनोद्भवानामित्यर्थः । एतावता सुरासुरनररमणीश्रेणीनिर्जित्य जयचामर बिभर्तीत्यर्थः ॥ કમલ જેવા નેત્રવાળી નાગીદેવીના મસ્તકે કેશપાશ હતો. પોતાની જ્યશીલ શોભાથી સ્વર્ગ, મૃત્યુ અને પાતાળ એમ ત્રણે લેકની સ્ત્રીઓના સમુદાયને જીતીને જાણે મસ્તકને વિષે જયસૂચકચારને ધારણ કર્યો ન હોય ! અર્થાત નાથાદેવીના મસ્તકે અતિસુંદર કેશકલાપ શોભતા હતા. ૧ણા विधुं द्विधाकृत्य विधिय॑धत्त य-ल्ललाटमर्धन शिवे न्यधात्परम् । न चेन्मृगाङ्कार्धधरः कथ हरः, झिमर्धचन्द्रोपमितं च तद्वहेत् ॥१८॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy