________________
द्वितीयः सर्गः। पुरेऽथ तस्मिन् व्यवहारिपुङ्गवो, वधूव कुरा इति नाम धामवान् ।
महीरुहां स्वःशिखरीव विश्रुतो, रसास्पृशां न्यक्कृतविश्वनिःस्वतः ॥१॥ अथ देशग्रामादिवर्णनानन्तर मातृपितृमातृस्वप्नादिवर्णनादिप्रारम्भे(म्भः) । तस्मिन्पूर्ववर्णितप्रह्लाइनपुरे कुरा इति नाम व्यवहारिपु महेभ्येपु पुंगवः श्रेष्ठो बभूव संजातः । 'पुंगवो गवि भैषज्ये प्रधाने चोत्तरस्थितेः' इत्यनेकार्थः । किंभूतः । धामवान् गृहसेधी । अथवा तेजस्वी प्रभाववान् । 'धाम स्थाने गृहे गेहे प्रभावे जन्मतेजसोः' इत्यनेकार्थतिलकः । पुनः किंभूतः । विश्रुतो विख्यातः । केपा मध्ये । रसास्पृशां पुरुषाणाम् । क इव । स्वःशिखरीव । यथा महीरुहाणां वृक्षाणां मध्ये कल्पवृक्षो विख्यातोऽस्ति । अत एव किंभूतः कल्पद्रुः स च । न्यकृता निवारिता जगज्जनानां समस्तार्थिनां निःस्वता दारिद्रय येन ॥
બ્લેકાર્થ હવે પ્રથમ સર્ગમાં વર્ણન કરાયેલા એવા પ્રહલાદનપુરમાં, વેપારીઓમાં શ્રેષ્ઠ, તેજસ્વી અને પ્રભાવશાળી એવા કુરા નામના શ્રેષ્ઠ હતા. જેમ વૃક્ષોમાં કલ્પવૃક્ષ વિખ્યાત છે તેમ પુરુષોમાં કરાશાહ પ્રસિદ્ધ હતા. કહ૫વૃક્ષ જેમ જગતના જીવોની દરિદ્રતા દૂર કરે છે તેમ આ એડીએ પણ મનુષ્યની દરિદ્રતા દૂર કરી હતી. Nil
अरिष्टकेतुं नवभोगसङ्गिनं, त्रिरेखपाणिं पुरुषोत्तम पुनः । भ्रमाद्विवोढुर्जलधेरिवोद्वहा, महेभ्यमभ्येत्य वभाज यं मुदा ॥२॥
जलधेरुद्वहा समुद्रपुत्री लक्ष्मीर्य महेभ्य व्यवहारिणमभ्येत्य समागत्य मुदा प्रीत्या वभाज समाश्रिता । उत्प्रेक्ष्यते-वियोदुः स्वभर्तुः कृष्णस्य भ्रमात् भ्रान्तेरिव । किंभूत महेभ्यम् । अरिष्टेषूपद्रवेषु अरिष्टनाम्नि वृषभरूपे दैत्ये च केतुं धूमकेतुनामग्रहस्य सहक्षम् । तद्विध्वंसकत्वात् । पुनः किंभूतम् । नवानां नूतनानां स्तुतिसंयुक्तानांवा भोगानां सुखानां सङ्गः संगमोऽनुभवः प्राप्तिरस्येति । पक्षे-भोगः सर्पकायः अर्थात् शेषनागशरीरं तस्य सङ्गिन तच्छयनत्वात् । पुनः किंभूतः । त्रिरेखः आकृत्या शङ्खः पाञ्चजन्यश्च पाणी हस्ते यस्य । पुनः किंभूतः । पुरुषेषु समस्तेषु मानवेषु उत्तम श्रेष्ठ नाम च ॥