________________
૨૦૧
તર્કભાષા વાર્તિકમ્ હોવાથી અર્થાન્તર દોષ નહિ આવે. આંખ વિ. અસાધારણ કારણ છે. તેવા અસાધારણ કરણની અપેક્ષા રાખવામાં ન આવે તો કાળ દિશા અષ્ટ વિ. સાધારણ કારણ હર હમેંશ હાજર જ હોય છે. એથી કાર્ય જ્યારે ત્યારે ઉત્પન્ન થઈ શકશે. એના માટે દેશકાળની નિયતતા નહિ રહે. એટલે આંખ વિ. અસાધારણ કારણ છે. અસાધારણ કરણ વિના ચાક્ષુષપ્રત્યક્ષ વિ. આકસ્મિક થઈ જવાની આપતિ આવે. ઈત્યાદિ તો છે. આનાથી તે તે ઉપલબ્ધિમાં અસાધારણ કરણ તરીકે આંખ વિ. ઈન્દ્રિયજરૂર માનવી જોઈએ. (५४) (अर्थनिरूपणम्)
अर्था षट् पदार्थाः । ते च द्रव्यगुणकर्मसामान्यविशेषसमवायाः । प्रमाणादयो यद्यप्यत्रैवान्तर्भवन्ति तथापि प्रयोजनवशाद् भेदेन कीर्तनम् । (५५) (अर्थनिरूपणे द्रव्यनिरूपणम् )
तत्र समवायिकारणं द्रव्यम् । गुणाश्रयो वा । तानि च द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ।
. (५६) ( द्रव्यनिरूपणे पृथिवीनिरूपणम्)
तत्र पृथिवीत्त्वसामान्यवर्ती पृथिवी । काठिन्यकोमलत्वाद्यवयवसंयोगविशेषेण युक्ताः । प्राणशरीरमृत्पिण्डपाषाणवृक्षादिरूपा । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती ।
अर्थेतिं ननु द्रव्यादिषु षट्सु पदार्थेषु प्रमाणादीनां षोडशपदार्थानां यथासम्भवमन्तर्भावस्य वक्तुं शक्यत्वात्पृथक् प्रमाणादि षोडशपदार्थनिरूपणमनुपपन्नं, लाघवे सम्भवति गौरवस्यानाश्रयणीयत्वात् इतीमां शङ्कां निरस्यति ।
-
प्रमाणादय इति अयं भावो - अन्यशास्त्रे प्रतिपादितानां प्रमाणादीनां साक्षान्निश्रेयसांगत्ववत् (त्वात्) द्रव्यादीनां तदभावात्षोडशपदार्थवादो न युक्तः । ननु प्राधान्येन षट्पदार्थवादः, प्रयोजनेति प्रमाणत्वादिरूपेण तत्तद्विलक्षणप्रयोजनजनकाः प्रमाणादय इति द्रव्याद्यन्तर्गता अपि पृथगुद्दिष्टा इत्यर्थः ।
-