________________
તર્કભાષા વાર્તિકમ્
૧૩૪ સમાધાન :- લૌકિપરીક્ષકોની જે અર્થમાં સમાન બુદ્ધિ હોય તે દૃષ્ટાંત. એથી કરીને ઘટાદિમાં નૈરાભ્ય અને અપ્રાણાદિમત્ત્વ છે, આ અર્થમાં સર્વની સંમતિ છે. તો શા કારણે આ દષ્ટાંત ન બને ? તે કેવલવ્યતિરેકી (દષ્ટાંત) છે.
लक्षणमपि केवलव्यतिरेकी हेतुः । यथा पृथिवीलक्षणं गन्धवत्त्वम् । विवादपदं पृथिवीति व्यवहर्तव्यम्, गन्धवत्त्वात् । यन पृथिवीति व्यवह्रियते तन्न गन्धवत्, यथापः । प्रमाणलक्षणं वा । यथा प्रमाकरणत्वम् । तथाहि। प्रत्यक्षादिकं प्रमाणमिति व्यवहर्तव्यम् प्रमाकरणत्वात् । यत् प्रमाणमिति न व्यवह्रियते तन्न प्रमाकरणं यथा प्रत्यक्षाभासादि । न पुनस्तथेदं, तस्मान्न तथेति । न पुनरत्र यत् प्रमाकरणं तत् प्रमाणमिति व्यवहर्तव्यं यथामुक इत्यन्वयदृष्टान्तोऽस्ति, प्रमाणमात्रस्य पक्षीकृतत्वात् । अत्र च व्यवहारः साध्यो न तु प्रमाणत्वं, तस्य प्रमाकरणत्वाद्धेतोरभेदेन साध्याभेददोषप्रसङ्गात् । तदेवं केवलव्यतिरेकिणो दर्शिताः । ..
ननु केवलव्यतिरेकि साध्यं कचित्प्रसिद्धमप्रसिद्धं वा । प्रसिद्धौ केवलव्यतिरेकित्वमङ्गप्रसङ्गो अप्रसिद्धावप्रसिद्धविशेषणत्वमिति चेन्मैवं, यतोऽप्रसिद्धविशेषणत्वं तस्यभूषणं, न तु दूषणं । यद्येवं तर्हि शशविषाणोल्लिखितान्तर्भूत्वान्न यदेवं न तदेवं, यथा गगनमित्यादेरपि साध्यसिद्धिरितिचेन्मैवं, विपक्षे बाधकतकसाहित्यराहित्याभ्यां साध्यसिद्धयसिद्धयोरुपपत्तेरिति, लक्षणमपीति व्यावृत्तिव्यवहारो वा लक्षणस्य प्रयोजनं, यथा “गौरितरेभ्यो भिद्यते सास्नादिमत्त्वात्' यत्र इतरभेदाभावस्तत्र सास्नादिमत्त्वाभावो यथाऽश्वः । यत्र सास्नादिमत्त्वं तत्रेतरभेदत्वं यथा अमुक इति दृष्टान्तो नास्ति गोमात्रस्य पक्षीकृतत्वादिति ।
विवादपदमिति इदं काष्टादिविवादपदं भूर्वा आपो वा । नैयायिकः प्राह भूर्गन्धवत्त्वात् पृथिवीति व्यवहर्तव्यं, यन्नैवं तन्नैवं यथा आपः; यत्र पृथिवीति व्यवहारो न तत्र गन्धवदप्येवमपि न इतरेभ्यो भिद्यते न चेति विवादपदमिति प्रत्यक्षेति दोषदूषितेन्द्रियजन्यं ज्ञानं प्रत्यक्षाभासादि ।