________________
તર્કભાષા વાર્તિકમ્ ननु यदैव घटादयो जायन्ते तदैव तद्गतरूपादयोऽपि, अतः समानकालीनत्वाद् गुणगुणिनोः सव्येतरविषाणवत्कार्यकारणभाव एव नास्ति पौर्वापर्याभावात् । अतो न समवायिकारणं घटादयः स्वगतरूपादीनाम् । कारणविशेषत्वात् समवायिकारणस्य ।
अत्रोच्यते । न गुणगुणिनोः समानकालीनं जन्म, किन्तु द्रव्यं निर्गुणमेव प्रथममुत्पद्यते पश्चात् तत्समवेता गुणा उत्पयन्ते समानकालोत्पत्तौ तु गुणगुणिनोः समानसामग्रीकत्वाद् भेदो न स्यात् । कारणभेदनियतत्वात् कार्यभेदस्य । तस्मात्प्रथमे क्षणे निर्गुण एव घट उत्पद्यते गुणेभ्यः पूर्वभावीति भवति गुणानां समवायिकारणम् ।
तदा कारणभेदोऽप्यस्तिं । घटोहि घटं प्रति न कारणमेकस्यैव पौर्वापर्याभावात्, न हि स एव तमेव प्रति पूर्वभावी पश्चाद्भावी चेति । स्वगुणान् प्रति पूर्वभावित्वाद् भवति गुणानां समवायिकारणम् ।
"
ननु समवायः केन सम्बन्धेन तिष्ठति ? उच्यते अविनश्यदवस्थायां स्वरुपसबन्धेनेति, संयोगोऽपि तदवस्थायां समवायसम्बन्धेन तिष्ठतीति द्वावपि सम्बन्धौ द्विष्ठौं नित्यानित्यौ चेति सव्यं च सव्येतरं चेति विग्रहः, द्रव्यं निर्गुणमेवेति ।
ननु · घटाद्यक्षणे कालादीनां संयोगोऽस्तीति संयोगस्य गुणत्वात् कथं निर्गुणत्वम् ? इतिचेन्न तदानीं तस्य मूर्त्तत्वाभावादिति । कारणभेदेति । नन्वत्र कारणशब्दः सामग्रीवचनोऽनेककारणजन्यस्यापि पटस्यैकत्वदर्शनात्कारणभेदनियतः कार्यभेदो न भवति, किन्तु सामग्रीभेदे नियतोऽयं भावो दृश्यमानः कार्यभेदसामग्रीभेदव्याप्तस्सन् तद्भेदं गमयति, यथाऽग्निव्याप्तो धूमोऽग्निमिति ।
.
८१
·
-
શંકાકાર : સમવાય કયા સંબંધથી રહે છે.
સમાધાન ઃ બેમાંથી એક પણ પદાર્થ નાશ ન પામે ત્યાં સુધી સ્વરૂપ સંબંધથી ત્યાં રહે છે. સંયોગ પણ તે અવસ્થામાં સમવાય સંબંધથી રહે છે. બન્ને સંબંધ બે પદાર્થમાં રહેનારા છે. સમવાયસંબંધનિત્ય છે. અને સંયોગ સંબંધ અનિત્ય છે.