________________
૩૩૨
યોગશાસ્ત્ર ભાષાંતર-અષ્ટમ પ્રકાશ (પ્રકારાંતરે કરી બાર કે પદમય, મંત્રમયી દેવતાનું સ્વરૂપ ध्यावानु के छ.)
પદસ્થ ધ્યાન પ્રકારોતરે अथवा नाभिकन्दाधः, पद्ममष्टदलं स्मरेत् । स्वरालीकेसरं रम्यं, वर्गाष्टकयुतैर्दलैः ॥ ६ ॥... दलसन्धिषु सर्वेषु, सिद्धस्तुतिविराजितम् । .. दलाग्रेषु, समग्रेषु, मायाप्रणवपावितम् ॥ ७ ॥ . .. तस्यान्तरन्तिमं वर्ण-माधवर्णपुरस्कृतम् । . रेफाक्रान्तं कलाबिन्दु-रम्यं प्रालेयनिर्मलम् ॥ ८ ॥ अहमित्यक्षरं प्राण-प्रान्तसंस्पर्शि पावनम् । . इस्वं दीर्घ प्लुतं सूक्ष्म मतिसूक्ष्म ततः परम् ॥ ९ ॥ ग्रन्थीन् विदारयन्नाभि-कन्दहृद्धष्टिकादिकान् । सुसूक्ष्मध्वनिना मध्य-मार्गयायि स्मरेत्ततः ॥ १० ॥ अथ तस्यान्तरात्मानं, प्लाव्यमानं विचिन्तयेत् । विन्दुतप्तकलानियत्-क्षीरगौरामृतोमिभिः ॥ ११ ॥ ततः सुधासरःसूत-षोडशाब्जदलोदरे । आत्मानं न्यस्य पत्रेषु, विद्यादेवीश्च षोडश ॥ १२ ॥ स्फुटस्फटिकभृङ्गार-क्षरत्क्षीरसितामृतैः । आभिराप्लाव्यमानं स्वं, चिरं चित्ते विचिन्तयेत् ॥ १३ ॥ अथास्य मन्त्रराजस्या-भिधेयं परमेष्ठिनम् । अर्हन्तं मूर्धनि ध्यायेत् , शुद्धस्फटिकनिर्मलम् ॥ १४ ॥ तद्धयानावेशतः सोऽहं, सोऽहमित्यालपन्मुहुः । निःशङ्कमेकतां विद्या दात्मनः परमात्मना ॥ १५ ॥ ततो नीरागमद्वेष-ममोहं सर्वदर्शिनम् । सुराच्य समवसृतौ, कुर्वाणं धर्मदेशनाम् ॥ १६ ॥