________________
ચૈત્યવન્દન મહાભાષ્ય
અવિરાધિત થાઓ. તેમાં માત્ર શબ્દથી આ (હવે કહેવાશે તે) આગારોનો संग्रह यो छे. (४४३-४४४)
अगणीउ व छिंदेज्ज व, बोहियखोभाइ दीहडक्को वा । आगारेहिँ अभग्गो, उस्सग्गो एवमाईहिं ॥४४५॥ .. अग्नयो वा छिन्द्याद् वा बोधिकक्षोभादि दीर्घदष्टो वा.।. आकारैरभग्न उत्सर्ग एवमादिभिः ।।४४५।। .
व्याख्या- अधुना एवमादिभिराकारैरित्यादिसूत्रावयवव्याचिख्यासयाह- 'अगणि'. त्ति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, अहनमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्वं परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, 'छिंदिज्ज व' त्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, अत्राप्यग्रतः सरतो न कायोत्सर्गभङ्गः, 'बोहियखोभाइ' त्ति बोधिकाः- स्तेनकास्तेभ्यः क्षोभः- संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो (ऽनुच्चारयतो) वा न कायोत्सर्गभङ्गो ‘दीहडक्को व' त्ति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभग्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ।। (आवश्यक सूत्रनियुक्तिगाथा-१५१५)।।
અગ્નિ, છેદ, બોધિકક્ષોભ આદિ કે દીર્ધદષ્ટ ઈત્યાદિ આગારોથી કાયોત્સર્ગ અલગ્ન થાઓ. (અહીં આવશ્યકનિયુક્તિની ગાથાની ટીકામાં જણાવેલા અર્થો પ્રસ્તુત ભાષ્યની જ ગાથાઓમાં હવે પછી આવતા હોવાથી અહીં ટીકાનો અર્થ सभ्यो नथी.) (४४५)
अगणि त्ति पलीवणयं, उच्छिंदेज्ज व विराल-पुरिसाइं। बोहिय चोरविसेसा, तेसिं खोभे पलायणया ॥४४६॥ अग्निरिति प्रदीपनकमुच्छिन्द्याद् वा बिडाल-पुरुषादि । बोधिकाः-चौरविशेषास्तेषां क्षोभे पलायनता ।।४४६।।